________________
१८८
श्री हीरसुन्दर' महाकाव्यम् प्रक्रियायाम् । (८) लब्धसौहित्यस्य । (९) भोज्यैरिव । (१०) पुस्तकेन । (११) कार्य नास्ति । (१२) बहवो नेके धीवानो मतिमन्तो विद्यन्ते यस्यां नगर्यां, सा बहुधीवा नगरी, तस्या वरः भर्ता । श्रीकरीपते ! इत्यर्थः ॥१६॥
'नरेन्द्र ! यावद्वतिनां विलोक्यते, तदस्त्य॑मीषां क्रियतेऽधिकेन किम् । 'विभोरिमां दामवर्दूद्वहन्हेंदा, "गिरं पुनः क्षोणिपुरन्दरोऽवदत् ॥९७॥
(१) हे साहे ! । (२) यावत्पुस्तकं विलोक्यते तावन्मात्रम् । (३) तत्पुस्तकं विद्यते । (४) साधूनाम् । (५) अधिकेन पुस्तकेन कृत्वा किं विधीयते ? न किञ्चित्कार्यमिति । (६) सूरिः( रेः) । (७) पुष्पमालामिव । (८) धारयन् । (९) मनसा वक्षसा च । (१०) वाचम् । (११) नृपतिः । (१२) बभाषे ॥१७॥
'ब्रवीमि वः किं बहु येन 'निःस्पृहा, महीधनाकिञ्चनतुल्यचक्षुषः ! । तथाऽपि मन्त्राहुतिसिद्धदेववत्, प्रसद्य मे 'पिप्रतु यूर्यमीहितम् ॥१८॥
(१) कथयामि । (२) युष्मान् । (३) वारं वारम् । (४) कारणेन । (५) विगतवाञ्छाः । (६) राज्ञि दरिद्रे च समानदृशः । (७) मन्त्रेण होमेन च सन्तुष्टसुर इव । (८) अनुग्रहं कृत्वा । (९) पूरयन्तु । (१०) वाञ्छितम् ॥९८॥
यदाद नैष' 'मुहुर्बहूदित-स्तैदा हृदा भूपतिनेत्यंचिन्त्यत । 'विधीयते किं बहुनिस्पृहा "अमी, इवाऽनुरागा न च विक्रमोचिताः ॥१९॥
(१) न गृह्णीतवान् । (२) सूरिः । (३) वारंवारम् । (४) प्रचुरम् । (५) कथितः । (६) तस्मिन्नवसरे । (७) साहिना । (८) विमृष्टम् । (९) किं क्रियते । (१०) एते । (११) अतिनिरीहाः । (१२) स्त्र्याद्यनुरागा इव । (१३) न बलयोग्याः स्युः ॥१९॥
'अमीभिरुक्तिर्मम संज्यते न 'चे-त्ततोऽन्तरा कश्चन सन्धिकर्तृवत् । विधीयते यद्विविधोक्तिभिः 'प्रभू-नुरीकृति स्वेन स एव कारयेत् ॥१००॥
(१) सूरिभिः । (२) कथितम् । (३) क्रियते । (४) यदि । (५) मध्ये । (६) कोऽपि । (७) सन्धिकारक इव । (८) यत्कारणात् । (९) नानाप्रकारैरनुनयविनयादिभिर्वचनचातुरीविशेषैः । (१०) सूरीन् । (११) अङ्गीकारम् । (१२) आत्मना । (१३) मध्यस्थ एव कश्चित् ॥१०॥
इमं विकल्पं परिकल्प्य 'चेतसा, 'विभूषय गमितः क्षितेः परम् ।
"सुधारुचेचीरवशासवेशगो, ग्रहः पदव्या इव मन्युभोजिनाम् ॥१०१॥ 1. प्रसाद्य हीमु० । 2. मन्यते हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org