________________
चतुर्दशः सर्गः
१८१ पद्मसुन्दरस्य पुस्तकम् । (६) मदायत्तम् । (७) कृतवान् । (८) यस्मात्कारणात् । (९) श्रीः । (१०) अन्यायिनम् । (११) त्यजति ॥११॥
'दिनान्तसन्ध्यासमयस्वधाशना-म्बुजाननाकोशमिवोऽखिलागमम् । 'इदं प्रदास्याम्यहमत्र कस्यचि-महानुभावस्य हृदीत्यचिन्तयम् ॥१२॥
(१) दिवसावसानस्य सन्ध्याकालस्य देवी सरस्वती तस्या भाण्डागारमिव । “दिनान्तसन्ध्यासमयस्य देवता" इति नैषधे । (२) समस्तं शास्त्रम् । (३) पद्मसुन्दरसम्बन्धि । (४) मम मण्डलवासिनः । (५) जगद्विख्यातिभाज उत्तमसाधोः । (६) मनसि । (७) विचारितवान्
॥९२॥
ततो गुणागण्यमहीमहार्णवा, न वीक्षिताः केऽपि दृशा 'भवादृशाः । 'पदे पदे स्युः किमु निर्जरार्जुनी-मणीमहीजन्मनिपावनीधराः ॥१३॥
(१) तस्मात्कारणात् । (२) गुणा एव गणयितुमशक्यानि रत्नानि, तेषां महासमुद्राः । (३) न दृष्टाः । (४) सा( श्री )मत्सदृशाः । (५) स्थाने स्थाने । (६) कामधेनु-चिन्तामणिकल्पद्रुम-कामकुम्भ-मेरवः । निर्जरशब्दादने धेन्वादिशब्दा योज्याः । यथा चिन्तामणिपार्श्वनाथस्तवे"गीर्वाणद्रुमकुम्भधेनुमणयस्तस्याऽङ्गणैरिङ्गिण" इति ॥१३॥
'इदं तादत्त समस्तपुस्तकं, मुनीश्वरा मामनुगृह्य शिष्यवत् । यदत्र पात्रप्रतिपादनं नृणां, भवाम्बुराशौ कलभी( शी )सुतायते ॥१४॥
(१) मत्पुस्तकम् । (२) गृह्णीत । (३) ममोपरि । (४) अनुग्रहं विधाय । (५) शिष्यस्येव । (६) जगति । (७) सुसाधुदानम् । (८) नराणाम् । (९) संसारसमुद्रे । (१०) अगस्तिरिवाऽऽचरति ॥९४॥
'मतिं श्रुतक्षीरधिपारदृश्वरी, यतो वहन्तः स्थ तपस्विशेखराः । इमं ततोऽलङ्कुरुतां मरालव-द्विरञ्चिपुत्र्या इव वः "कराम्बुजम् ॥१५॥
(१) बुद्धिम् । (२) शास्त्रसुधासमुद्रपारगामिनीम् । (३) धारयन्तः । (४) वर्त्तध्वे । (५) मुनिमुकुटाः । (६) मत्पुस्तकम् । (७) भूषयताम् । (८) हंस इव । (९) सरस्वत्याः । (१०) युष्माकम् । (११) करकमलम् ॥१५॥
'इदं तर्दाकर्ण्य 'सकर्णकेसरी, 'गिरं 'न्यगादीत्तमसामवावरीम् ।
अवाप्ततृप्तेरशनैरिवाऽमुना, न कृत्यमास्ते बहुधीवरीवर ! ॥१६॥
(१) साहिभाषितम् । (२) श्रुत्वा । (३) पण्डितपञ्चाननः । (४) वाणीम् । (५) बभाषे । (६) पापानामज्ञानानां च । (७) अपनेत्रीम् । 'ओण अपनयने' ओणतीत्यवावरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org