________________
१८६
श्री हीरसुन्दर' महाकाव्यम् तेषां देहैरिव । (३) क्षिप्तो निहतः कामः कालः कलिकालश्च दैत्यश्च तयोविलासो यैः । (४) अन्धकारनिकरनिर्भेदनाभिज्ञैः । (५) सूर्यैः ॥८६॥
अलङ्कतिज्यौतिषकाव्यनाटक-प्रमाणवेदान्तसलक्षणागमान् । 'अदर्शयन्साधुसुधांशुसाधवो, नृपस्य भावानिव भानुभानवः ॥८७॥
(१) वाग्भट्टालङ्कारादयः नारचन्द्रभुवनदीपकादयश्च । “सारमुद्धियते किञ्चिज्ज्योतिषक्षीरनीरधे" रिति वचनात् । काव्यानि-रघुनैषधादीनि, नाटकानि-हनूमताङ्गदनाटकादीनि, प्रमाणानितर्कभाषादीनि वेदान्तः स्यादुपनिषद्वेदवृत्तयः । हैमपाणिन्यादिव्याकरणयुक्ता आगमा-आचाराङ्गादयस्तान् । (२) नामग्राहं दर्शयन्ति स्म । (३) सूरीन्द्रमुनयः । (४) पदार्थान् । (५) सूर्यकिरणाः ॥८७॥
'निभाल्य 'निःशेषमिदं स्वचक्षषा, 'हृदा दधीतिमिवेन्दिरात्मजः । 'बभाण 'भूमीधुमणिर्गणीश्वरं, 'तृणीकृतानेकनरेन्द्रविक्रमः ॥४८॥
(१) दृष्ट्वा । (२) समस्तम् । (३) पुस्तकम् । (४) निजनयनेन । (५) मनसा वक्षःस्थलेन च । (६) हर्ष कान्तां च । (७) स्मरः । (८) बभाषे । (९) नृपः । (१०) सूरीन्द्रम् । (११) पराभूताशेषराजवीर्यः ॥८८॥
पुराभवत्प्रीतिपदं वयस्यव-विशारदेन्दुर्मम पद्मसुन्दरः । न येन सेहेऽम्बुरुहामिवाऽऽवलि-हिमर्दाना पण्डितराजगविता ॥८९॥
(१) पूर्वम् । (२) स्नेहस्थानम् । (३) मित्रमिव । (४) पण्डितप्रकाण्डम् । (५) पद्मसुन्दर इति नामा नागपुरीयतपापक्षः । (६) पद्मसुन्दरेण । (७) सोढा । (८) पद्मानाम् । (९) श्रेणिः । (१०) शीतऋतुना । (११) पण्डितराज इति नाम्नः वाराणसीतः समेतस्य स्वगुरुणाऽप्यजेयतां स्वस्य प्रख्यापयतो विप्रस्य गर्विता-स्वचित्तकल्पितानल्पाहङ्कारिता ॥८९॥
जगाम स स्वर्गिमृगीदृशां 'दृशा-मथाऽतिथेयीं परिणामतो विधेः । 'मुहुर्मयोऽशोचि स वातपातिता-जिरप्ररूढामरसालवद्विभो ! ॥१०॥
(१) गतः । (२) देवाङ्गनानाम् । (३) नयनानाम् । (४) अतिथिताम् । (५) अथकियता कालेन । (६) वशतः । (७) दैवस्य । (८) वारंवारम् । (९) शोचितः । (१०) पद्मसुन्दरपण्डितः । (११) पवनेन निष्पातितस्वगृहाङ्गणोद्गतः कल्पवृक्ष इव ॥१०॥
'अमुष्य शिष्येषु गवेषयन्नहं, न साधिमानं बहुपात्फलेष्विव ।
चकार तत्पुस्तकात्मसात्ततो, यद॑िन्दिरा नीतिमुचं "विमुञ्चति ॥११॥ (१) पद्मसुन्दरस्य । (२) पश्यन् । (३) समीचीनताम् । (४) वटतरुफलेषु । (५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org