SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः १८५ 'जगाद गाजी गणपुङ्गवं पुनः, “पुरा मयेति 'श्रुतिगोचरीकृतम् । 'विलोचनानामिव भोगिनां विभोः, सहस्रयुग्मं शमिनां समस्ति वः ॥८२॥ (१) बभाषे । (२) मुद्गलजनपदप्रसिद्ध महत्त्वख्यापकमभिधानं 'गाजी'ति । (३) सूरिम् । (५) पूर्वम् । (५) श्रुतमास्ते । (६) नयनानाम् । (७) शेषनागस्य । (८) द्विसहस्री। (९) मुनीनाम् । (१०) युष्माकम् ॥८२॥ ततः क्षितीन्द्रो वतिनां व्रतीश्वरं, 'समीपभाजार्मभिधाः स्म पृच्छति । परस्परं तस्य पुरस्तं एव 'ता, महामणीनामिव तद्विदोऽवदन् ॥८३॥ (१) तत्कथनानन्तरम् । (२) नृपः । (३) सूरिसार्द्धसमेतसाधूनाम् । (४) सूरिं प्रति । (५) प्रभुपार्श्वस्थायुकानाम् । (६) नामानि (७) अन्योऽन्यम् । (८) राज्ञोऽने । (९) गीतार्था एव । (१०) अभिधानानि । (११) महर्घ्यरत्नानाम् । (१२) रत्नपरीक्षकाः । (१३) अकथयन् ॥८३॥ गृहोदथाऽऽनायितमजन्मना, “स खानखानेन च मुक्तमग्रतः । “महीमरुत्वान्प्रेमदार्दिवोपदां, "मुनीशितुढौंकैयति स्म पुस्तकम् ॥८४॥ (१) स्वमन्दिरमध्यात् । (२) नामप्रश्नानन्तरम् । (३) 'अणाव्यु' इति प्रसिद्धम्आनायितम् । (४) शेखूजीनाम्ना वृद्धपुत्रेण । (५) अकब्बरः । (६) मीयांखानेन । 'खानखाना' इति दत्तबिरुदेन । (७) आनीयाऽग्रे स्थापितम् । (८) भूमीन्द्रः । (९) हर्षात् । (१०) ढौकनम् । (११) सूरेः । (१२) प्रभृतीकरोति स्म पुस्तकम् ॥८४॥ 'ततस्तन्मुद्य पुरो 'धराविधो-रवाचि वाचंयमपुङ्गवैः प्रभोः । रहस्यमतस्य पुरो 'न्यगादि तै-रमुष्य सख्युः सुहृदेव चेतसः ॥८५॥ (१) आनयनानन्तरम् । (२) पुस्तकम् । (३) पुस्तिकाश्छोटयित्वा । (४) अकब्बरस्याऽने । (५) वाचितम् । (६) गीतार्थैः । (७) इदं पुस्तकमिदंनामाऽत्र एतद्वाच्यमित्यादि हार्दम् । (८) साहेः । (९) पुरः । (१०) कथितम् । (११) पुस्तकस्य । (१२) मित्रस्य । (१३) मित्रेण । (१४) स्वमानसहा प्रोच्यते ॥८५॥ 'उदीतमङ्गैरिह रुद्रविग्रहै-रिवाऽस्तपुष्पध्वजकालकेलिभिः । पुनस्तमस्तोमभिदा विदांवरैः, परैरुपाङ्गैरिव पद्मिनीवरैः ॥८६॥ (१) उदीतं प्रकटीभूतम् । “उदीतमातङ्कितवानशङ्कते" ति नैषधे । (२) रुद्रा एकादश 1. ततः क्षितीन्द्रः इतः परं हीमु० पुस्तके एषः श्लोको अपूर्णोऽस्ति । 2. सखिवत्स्वचेतसः हीमु० । 3. अतः परं हीमु० अन्तर्गतौ ८७-८८ तमश्लोकी हीसुंप्रतौ न स्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy