________________
चतुर्दशः सर्गः
१८३ स्ववासयोग्यां वसतिं न 'कुत्रचि-निरीक्षमाणैरवसादिभिर्गुणैः । 'स्वयंभुर्वाऽभ्यर्थ्य निवस्तुमात्मनां, मणिर्मुनीनां किमंकारि मन्दिरम् ॥७२॥
(१) आत्मनां स्थितेरुचिताम् । (२) कस्मिन्नपि स्थाने । (३) पश्यद्भिः । (४) खेदमेदुरैः । (५) ब्रह्मणा कर्ता । (६) याचनां कृत्वा । (७) वासं विधातुम् । (८) सूरीन्द्रः । (९) कारितम् । (१०) गृहम् ॥७२॥
असौ मुहुर्मीनभुजः शनेः फलं, मयाऽनुयुक्तोऽपि न किञ्चिदूँचिवान् । यतः क्वचिद्रंङ्गरसङ्गरो 'महान्, भवेत्सुराणामचलोऽपि 'चाचलिः ॥७३॥
(१) सूरिः । (२) वारंवारम् । (३) मीनराशिभोक्तः । (४) शनैश्चरस्य । (५) लाभम् । (६) पृष्टोऽपि । (७) किमपि । (८) कथितवान् । (९) भजनशीलप्रतिज्ञः । इति काकूक्तिः । (१०) महात्मा । (११) मेरुः । (१२) चलनशीलः । “चलि-पति-वदि-सहिभ्य इद्विचमिति चाचलिः सासहिरित्यादि पाणिन्याम् ॥७३॥
यथा 'सुधाब्धेरपरो न वारिधि-र्न 'सिद्धसिन्धोरपरा तरङ्गिणी । न पादपः कश्चन कल्पपादपात्, परों नृपः कोऽपि न चक्रवर्तिनः ॥७४॥ न 'धेनुरन्या सुरभेः सुधाभुजां, पदं न चाऽन्यत्परमेष्ठिनः पदात् । परो न धर्मः करुणाविधेर्यथा, तथाऽस्ति कश्चिन्न वशी 'विभोः परः ॥७५॥
युग्मम्॥ (१) येन प्रकारेण । (२) क्षीरसमुद्रात् । (३) न समुद्रः । (४) गङ्गायाः । (५) नदी । (६) वृक्षः । (७) कल्पवृक्षात् । (८) अन्यो राजा । (९) सार्वभौमात् षट्खण्डपृथ्वीपतेः
७४॥
(१) गोः । (२) कामधेनोः । (३) मुक्तिपदात् । (४) कृपाकरणात् । (५) योगीन्द्रः । (६) सूरेरन्यः ॥७५॥
'श्रवःपथातिथ्यमनायि 'यादृशो, 'वशी "दृशा तादृश एव दृश्यते । 'इदंगुणौघान् गणयन्जंगद्गिरा मगोचरान्कि स्थविरोऽभवद्विधिः ॥७६॥
(१) कर्णमार्गातिथेयीं श्रवणमार्गस्य प्राघुणतां वा । (२) नीतः । (३) यादृक्प्रकारः । (४) पञ्चेन्द्रियाणि मनश्च वशेऽस्यास्तीति वशी-योगीन्द्रः । (५) नेत्रेण । (६) विलोक्यते । (७) तादृक्प्रकार एव । (८) अस्य गुरोर्गुणगणान् । (९) सङ्ख्यां नयन् । (१०) जगज्जनवचनानाम् । (११) अविषयान् श्रोतुमशक्यान् । (१२) वृद्धः तन्नामा च जगत्कर्ता ॥७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org