SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८२ श्री हीरसुन्दर' महाकाव्यम् 'निपीय स 'श्रोत्रपुटैः 'सुधाशनः, सुधां सुधांशोरिव तां "प्रभोर्गिरम् । पुर्नर्महीमण्डलमत्स्यलाञ्छन-श्चकार 'वाचं वच(द )नानुषङ्गिनीम्(णीम्) ॥६७॥ (१) सादरं श्रुत्वा पीत्वा च । (२) कर्णरूपपत्रपुटकैः । (३) देवः । (४) चन्द्रस्य । (५) सूरेः । (६) रमणीयत्वेन महीतलस्य स्मरः । “निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुष" इति नैषधे । (७) मुखसङ्गाम् । उवाचेत्यर्थः ॥६७॥ 'धुतामिवोऽर्काः पयसामिवाऽर्णवा, यतः "श्रुतीनां निधयः स्थ सूरयः । इदं न जानीथ ततः कथं भवे-दगोचरः कश्चन सर्वविच्चिदाम् ॥१८॥ (१) किरणानाम् । (२) सूर्याः । (३) जलानाम् । (४) समुद्राः । (५) शास्त्राणाम् । (६) निधानानि । (७) वर्तध्वे । (८) मयोक्तम् - शनेर्मीनराशावागमनफलम् । (९) तस्मात्कारणात् । (१०) अविषयः - अप्रवेशः । (११) सर्वज्ञज्ञानानां महत्त्वापेक्षया बहुत्वम्, अथवा [मति] श्रुतावधिमनःपर्यवकेवलाभिधानां बहूनां ज्ञानानामित्यपेक्षया च बहुत्वम् ॥६८॥ प्रवृत्त्य वार्तास्वितरासु तत्फलं, 'पुनः पुनः 'प्रश्नयति स्म 'भूधनः । यदा तदास्यादपरं न धर्मतः, शशाङ्कबिम्बादमृतादिवोदंगात् ॥६९॥ (१) प्रवृत्तिं कृत्वा । (२) अन्यकिंवदन्तीषु । (३) व्याघुट्य वारं वारम् । (४) मीनराशिगतशनिफलम् । (५) पृच्छति स्म । (६) साहिः । (७) सूरिवक्त्रात् । (८) धर्मादन्यत् । (९) चन्द्रमण्डलात् । (१०) सुधाया ऋते । (११) प्रकटीभूतम् ॥६९॥ तदा मुदोर्वीवलयोर्वशीवशो, विधाय शेखं स्व[स]वेशदेशगम् । स बन्दिवृन्दारकवत्प्रंणीतवान्, 'पुरोऽस्य सद्भूतगुणस्तुतिं गुरोः ॥७॥ (१) तस्मिन्नवसरे । (२) हर्षेण । (३) भूमण्डलस्य पुरूरवाश्चक्रवर्ती । “तमेनमुर्वीवलयोर्वशीवश''मिति नैषधे । (४) अबलफइजनामानं शेखम्-तुरुष्कजातिगुरुप्रायम् । (५) स्वसमीपभूमिभाजम् । (६) प्रकृष्टमङ्गलपाठक इव । (७) कुरुते स्म । (८) शेखस्याऽग्रे । (९) स्वदृग्गोचरीकृतविद्यमानगुणानां वर्णनम् ॥७०॥ मया 'विशेर्षात्परदर्शनस्पृशो, गवेषिताः शेख ! न तेषु कश्चन । व्यलोकि वाचंयमचक्रिणः सदृग्, मृगेषु कोऽप्यस्ति मृगेन्द्रसन्निभः ॥७१॥ (१) विशेषात्-तत्तत्स्वप्रतिभाप्रागल्भ्यप्रकल्पितानल्पप्रश्ननिवहनिर्वाहकरणाप्रावीण्यप्रगुणितमन्दाक्षविलक्षीभवनपरिज्ञानात् । (२) अन्यदर्शनिनः । (३) दृग्गोचरीकृताः । (४) परदर्शनेषु । (५) कोऽपि । (६) दृष्टः । (७) हीरसूरिसमः । (८) सिंहतुल्यः ॥७१॥ 1. वाणी हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy