________________
चतुर्दशः सर्गः
१८१ 'पुरातनैरांचरितानि 'सूरिभि-र्यथा तथा धर्तुमहं न तान्यलम् ।
मतङ्गजप्रक्षरधारणक्षमा, मतङ्गजा एव न यत्तुरङ्गमाः ॥१२॥
(१) प्राचीनैः । (२) पालितानि । (३) आचार्यैः । (४) धारयितुम् । (५) न समर्थः । अतिदुष्करतया व्रतानाम् । (६) गजानां प्रक्षराणां 'पाखर' इति प्रसिद्धानां उद्वहने समर्थाः । (७) गजा एव । (८) परं स्वयोग्यप्रक्षरधारणे समर्था अपि वाजिनः किं गजप्रक्षरं धारयन्ति ? । तथाऽहमपि पूर्वाचार्यानुष्ठितमनुष्ठानं विधातुमसमर्थोऽपि देशकालानुरूपं मदुचितमनुष्ठानमाचरामीत्यर्थः ॥६२॥
'श्रुतोक्तयावद्विधिपालने यदा-ऽप्यलं न किञ्चित्तु तथाऽपि शक्तितः । 'विधि बिभर्येष तरेन्न तारको, नदीमपीशस्तरणेऽम्बुधेर्न यः ॥६३॥
(१) शास्त्रोक्तसर्वविधिपालने । (२) न प्रभुः । (३) स्वसामर्थ्यात् । (४) आचारम्। (५) धारयामि । (६) स्वकलया जलातिक्रमकः । (७) समुद्रापेक्षया स्वल्पजलां सरितम् । (८) समर्थः । (९) उल्लङ्गने । (१०) समुद्रस्य ॥६३॥
'इदं निशम्य प्रमदं दधन्नृपः, प्रणीय गोष्ठीमितरां च तात्त्विकीम् ।
परीक्षितुं रत्नपरीक्षको मणी-मिवेहमानः 'पुनरित्यवग्विभुः ॥६४॥
(१) पूर्वोक्तम् । (२) श्रुत्वा । (३) हर्षं कृत्वा । (४) सङ्कथाम् । (५) अन्याम्एतस्या वर्त्तायाः पृथग्वितिनीम् । (६) धर्मतत्त्वसम्बन्धिनीम् । (७) परीक्षां कर्तुम् । (८) मणिपरीक्षाकारक इव । (९) वाञ्छन् । (१०) इत्यग्रे वक्ष्यमाणम् । (११) उवाच । (१२) नृपः ॥१४॥
'पुरेऽनयीवाऽवनिमा पेयिवान्, य एष मीने तरणेस्तनूरुहः । स मत्सरीवाउँपकरिष्यति प्रभो !, क्षिते: पतीनामुत नीवृतां किमु ॥६५॥
(१) नगरे । (२) अन्यायीव । (३) नृपः । (४) आगतः । (५) मीनराशौ । (६) शनैश्चरः । (७) दुर्जन इव । (८) दुष्टं विधास्यति । (९) राज्ञाम् । (१०) अथवा । (११) देशजनानाम् ॥६५॥
गुरुर्जगौ ज्योतिषिका विदन्त्यदो, न 'धार्मिर्कादन्यदमि वाङ्मयात् । यतः प्रवृत्तिर्गृहमेधिनार्मियं, न "मुक्तिमार्गे 'पथिकीबभूवुषाम् ॥६६॥
(१) सूरिरुवाच । (२) ज्योतिःशास्त्रविदः । (३) जानन्ति । (४) एतद्ग्रहज्ञानम् । (५) धर्मसम्बन्धिशास्त्रात् । (६) अपरम् ।(७) न जानामि । (८) व्यापारम्-आजीविकाहेतुतया । (९) गृहस्थानाम् । (१०) ग्रहादीनां शुभाशुभपरिणतिकथनम् । (११) मोक्षाध्वनि । (१२) प्रवृत्तानाम् ॥६६॥ 1. पुनरित्यवोचत हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org