________________
१८०
श्री हीरसुन्दर' महाकाव्यम् (१) धारयति( न्ति) । (२) पञ्चसङ्ख्याकानि । (३) मुखानि । (४) ईश्वर इव । "पञ्चमुखोऽष्टमूर्ति''रिति हैम्याम् । (५) दन्तकोशयुग्मम् । (६) अन्याम् ।(७) अग्रे वक्ष्यमाणाम् । (८) महाव्रतोपरितनाम् ॥५७॥ ।
'निशास( श)नं नीतिजुषा निषिध्यते, परिप्लुतापानमिवाऽवनीपते ! । "निशाशनेभ्योऽपि वरं विहङ्गमा, निशि त्यजन्तो यतिवज्जलाशने ॥५८॥
(१) रात्रिभोजनम् । (२) न्यायवता निष्ठावता वा । (३) त्यज्यते । (४) मदिरापानम्। "गन्धोत्तमाकल्पमिरापरिप्लुता" इति हैम्याम् । (५) रात्रिभोक्तृभ्यः । (६) साधवः । (७) पक्षिणः । (८) रात्रौ । (९) अभुञ्जतः । (१०) साधव इव । (११) पानीयान्ने ॥५८॥
'गवामधीशं भुवनोपकारिणं, 'महस्विनं श्रीजिनपादसेविनम् ।
अवेत्य मित्रं विधुरं विधीयते-ऽशनादि यत्सा कथमौचिती सताम् ॥५९॥
(१) किरणानां भूमीनां वा धेनूनां वा स्वामिनम्-सूर्यं राजानं वा, कृष्णं वागोकुलवासित्वात् । (२) भुवनयोावापृथिव्योरुद्योतकारकत्वादुपकारकर्तारम् । राजा तु पालनाद्भूमेरुपकारकः, कृष्णोऽपि दैत्योपद्रवनिवारकत्वेन सुखदायकत्वेन जागतामुपकर्ता च । (३) तेजोभाजं प्रतापिनमुत्सववन्तं च । “एनं महस्विनमुपैहि सदारुणोच्चै" रिति नैषधे । महस्शब्दः सकारान्तोऽपि-महस्तेजउत्सवश्चेति तद्वृत्तिः । (४) श्रिया लक्ष्म्या शोभया वा युक्तो जिन:कृष्णस्तीर्थङ्करश्च तस्य पादं-आकाशं चरणं च पदमंशं च - कृष्णस्यांऽशावतारित्वात् । तस्य सेवनशीलम् । (५) ज्ञात्वा । (६) सखायम् सूर्यं च । (७) कष्टभाजमस्तंगतम् । मृतमित्यर्थः । "दिष्टान्तोऽस्तं कालधर्म" इति हैमीवचनात् । सूर्यस्य वैधुर्यं तु अस्तादेव । (८) भोजनादि । (९) केन प्रकारेण । (१०) युक्तिमती ॥५९॥
कदापि नैमित्त(त्ति )कवर्तपस्विनो, 'निमित्तमेते बुंवते न किञ्चन । यतश्चरित्रेण 'निमित्तभाषणा-त्तमित्रपक्षाद्विधुनेव हीयते ॥६०॥
(१) निमित्तज्ञा इव ज्यौतिषिका वा । (२) मुनयः । (३) ग्रहचाराङ्गस्फुरणशकुनस्वरादिकं निमित्तम् । (४) न भाषन्ते । (५) संयमेन । (६) ज्यौतिष्कादिकथनात् । (७) कृष्णपक्षात् । (८) चन्द्रेण । (९) क्षयं प्राप्यते ॥६०॥
इति व्रतान्सप्त बिभर्ति संयत-व्रजः 'शिवश्रीपरिरम्भलोलुपः । वसुन्धराभोग इवाऽम्भसा प्रभून्, शिखाः शिखीव डुमणिहयानिव ॥६१॥
(१) अमुना प्रकारेण । (२) सप्तसङ्ख्याकान् । (३) मुनिगणः । (४) मुक्तिलक्ष्यालिङ्गनलालसः । (५) पृथ्वीविस्तारः । (६) सप्त समुद्रान् । (७) ज्वालाः । (८) वह्निः। (९) सूर्यः । (१०) सप्ताश्वान् ॥६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org