SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७९ चतुर्दशः सर्गः 'पुरस्सरास्तस्य सुरा मरुद्गवी, गृहाङ्गणे पाणितले 'मरुन्मणिः । पुरः सुरळैनिकटे मरुद्धटः, स्वयंवराः स्युर्भुवनत्रयीश्रियः ॥५२॥ प्रदक्षिणो दक्षिणवारिजः पुनः, खलाः सखायः सविधे च सेवधिः । न चित्रकृच्चित्रलता च सिद्धयः, करेऽदधद्योऽसिशिखोपमं व्रतम् ॥५३॥ युग्मम् ॥ (१) पदातयः । (२) कामधेनुः । (३) हस्ते । (४) चिन्तामणिः । (५) अग्ने । (६) कल्पद्रुमः । (७) पार्वे (८) कामकुम्भः । (९) आत्मना आगत्य त्रैलोक्यलक्ष्म्यस्तं वृण्वते ॥५२॥ (१) अनुकूलः । (२) दक्षिणावर्त्तशङ्खः । “कम्बुस्तु वारिजः" इति हैम्याम् । (३) दुर्जनाः । (४) मित्राणि भवन्ति । (५) पार्वे । (६) निधानम् । (७) प्राप्तेरभावाद्विस्मयकारिणी न । तस्य गृह एवोद्गच्छति । (८) अष्टावप्यणिमाद्याः सिद्धयस्तस्य हस्ते-मनोऽनुगामिन्यः । (९) धृतवान् । (१०) खड्गधारासदृशम् । (११) ब्रह्मव्रतम् ॥५३॥ 'गजोऽप्येजो गोष्पदमम्बधिर्मगो, 'मगाधिपः स्रग् जगस्तमी दिनम् । रणः क्षणश्चीऽल्पगिरिमरुगिरि-स्त्रिंधाऽपि यो ब्रह्म बिभर्ति भूपते ! ॥५४॥ (१) हस्ती । (२) छागः । (३) धेनुखरोत्खातभूमिस्थजलमिव । (४) समुद्रः । (५) सिंहः । (६) पुष्पमाला । (७) सर्पः । (८) रात्रिः । (९) सङ्ग्रामः । (१०) महोत्सव। (११) कर्करप्रायः । (१२) मेरुः । (१३) मनोवाक्कायैः । (१४) तुर्यव्रतम् ॥५४॥ परिग्रहः संयमिनाउँपवादव-त्रिधाऽपि नाऽङ्गीक्रियते कदाचन । 'तमस्तैमीनामुदयादिवोरंगा-द्विषं यतो दोषभरः परिस्फुरेत् ॥५५॥ (१) चारित्रवता । (२) निन्दा इव । अपयश इव । (३) अन्धकारम् । (४) रात्रेराविर्भावात् । (५) सर्पात् । (६) गरलम् । (७) निःशूकतानिर्दाक्षिण्यादिअ( द्य )पगुणगणः । (४) प्रकटीभवेत् ॥५५॥ 'गिरीन्द्रमारोहति लङ्घतेऽम्बुधीन्, 'प्रयाति जन्यं गहनं विगाहते । “असूंस्तुणानीव सृजेन्निजान्जन-स्तैदुल्लसल्लोभविजृम्भितं विभो ! ॥५६॥ (१) उच्चैः शैलम् । (२) तरति । (३) समुद्रान् । ( ४ ) सङ्ग्रामम् । (५) प्रविशति । (६) अरण्यम् । (७) भ्राम्यति । (८) प्राणान् । (९) तृणप्रायान् । (१०) कुर्यात् । (११) हृदयेऽतिवर्द्धनशीललोभलीलायितं सर्वम् ॥५६॥ वहन्ति पञ्च व्रतिनो महाव्रता-न्यमूनि वक्त्राणि मृगाङ्कमौलिवत् । भजन्ति दन्तद्वितयीं गजा इा-ऽपरामिमां देव ! पुनर्वतद्वयीम् ॥५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy