________________
१७६
श्री हीरसुन्दर' महाकाव्यम् (५) व्याकरणसाहित्यतर्कलक्षणां विद्यात्रयीम् । "भुवनवलिवह्निविद्यासन्ध्यागजवाजि (जाति)शम्भुनेत्राणी"ति काव्यकल्पलतायाम् । (६) विद्वान् । (७) चालयितुमशक्याम् । (८) मेरुरिव । (९) तां पूर्वोक्तां जिन-गुरु-धर्मरूपां त्रयीम् । (१०) धारयामि ॥३६॥
कति व्रतानीह वहध्वमात्मना, परेण शक्यानि न वोढुमंद्रिवत् । इदं नृपे पृच्छति भारती विभो-र्मुखारविन्दे मधुपी बभूवुषी ॥३७॥
(१) कियत्सङ्ख्याकानि । (२) धारयत । (३) स्वयम् । (४) असमर्थानि । (५) धारयितुम् । (६) गिरय इव । (७) वाणी । (८) भ्रमरीभूता । उवाचेत्यर्थः ॥३७॥
वसुन्धराभोग इवाऽमराचला-न्सुपर्वसालानिव काञ्चनाचलः । अहं वहे पञ्चमहाव्रतानमून्, स्वविक्रमाधःकृतपाकशासन ! ॥३८॥
(१) भूमिविस्तार इव । (२) मेरुन् । (३) पञ्चकल्पवृक्षान् । (४) सुमेरुः । (५) व्रतशब्दः पुनपुंसके । "व्रतोपवीतौ पलितो वसन्त" इति लिङ्गानुशासने । (६) निजबलतिरस्कृतशक्र ! ॥३८॥
क्षितीन्द्र ! तेषामिदादिमं व्रतं, समन्तवो 'मन्तुमुचोऽपि जन्तवः । न पञ्चतागोचरचारिणः क्वचि-त्रिधा क्रियन्ते निजनन्दना इव ॥३९॥
(१) पञ्चमहाव्रतानां मध्ये । (२) प्रथमं व्रतम् । (३) सापराधाः । (४) निरपराधाश्च । (५) प्राणिनः । (६) मरणस्य विषये सञ्चरणशीलाः । नैव हन्यते । (७) स्वपुत्रा इव ॥३९॥
न देव ! देवः परमेशितुः परः, प्रतापवान्नाऽपि पयोजिनीपतेः ।
गुरुर्न मेरोर्न मणिर्मरूँन्मणे-स्तथा न धर्मोऽस्ति दयाविधेः परः ॥४०॥
(१) हे राजन् ! । देवशब्देन राजा भट्टारकादिरुच्यते । “देव ! त्वद्भुजदण्डदर्पगरिमोद्गीर्णप्रतापानले"ति खण्डप्रशस्तौ । (२) परमेश्वरात् । (३) अन्यः । (४) तेजोवान् । (५) सूर्यात् । (६) महान् । (७) चिन्तारत्नात् । (८) कृपामयात् ॥४०॥
वदन्ति वाचंयमपुङ्गवास्त्रिधा, मृषा न भाषामपि जीवितव्यये ।
इदं यदंह पटलीव दुर्गते-विमानताया 'अतिशायि साधनम् ॥४१॥
(१) मुनिमुख्याः । (२) मनोवाक्कायैः । (३) असत्याम् । (४) वाणीम् । (५) प्राणत्यागेऽपि । (६) असत्यवाक् । (७) पापश्रेणिः । (८) नरकस्य । (९) अवगणनस्य । (१०) अद्वैतम् । (११) कारणम् ॥४१॥
1. "व्रतोपवीतौ पलिलिन्तौ वसन्त" इति हीमु० । 2. न मरुन्मणेर्मणिस्तथा हीमु० । 3. कारणम् हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org