SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७५ चतुर्दशः सर्गः 'परिग्रहं यो जलमम्बुदाविलं, मैरालवन्मुञ्चति सद्म संसृतेः । प्रबोधशालीनिह यः प्ररोपयेत्, कृपारसापूरित मानसावनौ ॥३१॥ प्रवर्तको यः सुगतेश्च दुर्गते-र्व्यनक्ति मार्गों रविवच्छुभाऽशुभौ । भवात्तरन्स्वेन परांश्च तारयं-स्तरीव वाद्धौं गुरुरीदृशः स्मृतः ॥३२॥ युग्मम् ।। (१) धनधान्यादिसङ्ग्रहम् । (२) मेघेन कृत्वा सजम्बालं जलम् । (३) हंस इव । (४) गृहम् (५) संसारस्य । (६) सम्यक्त्वरूपकलमान् । शालिः पुंसि । (७) कारुण्यामृतेन परिपूर्णीभूतचित्तक्षितौ । जलभृतभूमौ हि शालय उप्यन्ते ॥३१॥ (१) प्रवृत्तिकारको( कः) । (२) स्वर्गस्य । (३) नरकस्य च । (४) प्रकटीकरोति । (५) पन्थानौ । (६) संसारात् । (७) पारं गच्छन् । (८) आत्मना । (९) अन्यान्भव्यान् । (१०) पारं प्रापयन् । (११) नौरिव । (१२) समुद्रे । (१३) ईदृग्लक्षणो गुरुः । (१४) शास्त्रे प्रोक्तः ॥३२॥ 'जिनास्यपद्मे मकरन्दविभ्रमं, 'दधद्विपत्पूषसुताप्रलम्बभित् । 'महोदयस्वर्गितरोरिवाऽङ्करः, कृपापयोराशितमस्विनीपतिः ॥३३॥ 'नरोरगस्वर्गृहसार्वभौमता-दिमेन्दिरा यस्य वशंवदाः सदा । पुनर्विधातेव भवान्तकारकः, क्षितीन्द्र ! धर्मः पुर्नरीदृशः श्रिये ॥३४॥ युग्मम् ॥ (१) सर्वज्ञवदनकमले । (२) मकर[न्द]विलासम् । (३) सर्वज्ञैः प्रणीत इत्यर्थः । (४) आपद्रूपाया यमुनाया भेदने बलभद्रोपमः । (५) मोक्षकल्पवृक्षस्य । (६) प्ररोह इव । (७) करुणादयासमुद्रस्य वर्द्धने विधुः ॥३३॥ (१) नरेन्द्रता-ऽसुरेन्द्रता-सुरेन्द्रताप्रमुखश्रियः । (२) आयत्ताः । (३) विधिरिव । (४) भवस्य संसारस्य अन्तकारको-व्यापादयिता । (५) समस्तजगतां संसाराद्धारणाद्धर्मः । (६) एवंलक्षणः । (७) मोक्षलक्ष्म्यै भवति ॥३४॥ जनुष्मतां शालिशया इवाऽऽत्मना-ऽपुनर्भवोद्भावविधायिनोऽनिशम् । त्रयोऽप्यमी सन्ति समग्रमेदिनी-धवावतंसीकृतपादपङ्कज ! ॥३५॥ (१) जनानाम् । (२) शोभनशीला हस्ताः । (३) मोक्षप्रकटीभा[व]करणशीलाः । नखप्रकटनकारिणः । (४) देवगुरुधर्माः । (५) सकलभूपालैः शेखरीकृतचरणकमल ! ॥३५॥ 'शिवस्त्रिनेत्रीमिव भूमिमानिव, 'त्रिशक्ति विद्यात्रितयीं 'सुधीरिव । अचालनीयां सुरशैलवत्सुरै-स्तंदर्हदादित्रितयीमहं वहे ॥३६॥ (१) ईश्वरः । (२) नेत्रत्रयम् । (३) राजा । (४) प्रभुत्वोत्साहमन्त्रलक्षणां शक्तित्रयीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy