________________
चतुर्दशः सर्गः
१७३
'अनश्वरी श्रीर्यवता किमु ध्रुवा, जरापि जीर्णा 'शमनः शशाम किम् । "यदेष 'जन्मी र्विषयाभिलाषुको, दधाति धर्मे न मनो मनागपि ॥ २१ ॥
(१) शाश्वता । (२) यौवनम् । ( ३ ) नित्या । ( ४ ) वयोहानिं प्राप्ता । ( ५ ) यमः । ( ६ ) शान्त: मृतो वा । ( ७ ) यस्मात्कारणात् । ( ८ ) जन: । ( ९ ) भोगेषु लोलुपः । (१०) स्थापयति । (११) क्षणमात्रमपि ॥ २१ ॥
'प्रसत्वरः शम्बरवैरिविक्रमो - चिरात्सृजेद्विक्रमिणोऽप्यविक्रमान् । "उदीयतेऽस्मादपि 'राजयक्ष्मणा, "तमोभरेणेव "तमस्विनीमुखात् ॥२२॥
(१) प्रसरणशीलः । लब्धावकाशः । ( २ ) स्मरापस्मार:- मदनोन्मादः । (३) स्तोकेनैव कालेन । (४) कुर्यात् । (५) बलिनोऽपि । ( ६ ) अबलान् । (७) प्रकटयति । (८) कामातिरेकात् । ( ९ ) क्षयरोगेण । (१०) अन्धकारनिकरणे । ( ११ ) प्रदोषात्सन्ध्यासमयात् ॥२२॥
'मनोभुवा मोहयमानमानसो, 'महांहसां संहतिमात्मनोऽऽचरन् ।
" लभेत कश्चिन्नवकेषु "कारणा- मिहाऽपि शूलामिव पारिपन्थिकः ॥ २३॥
(१) कामेन शत्रुभूते [न] । ( २ ) मोहं मूर्च्छा सदसच्चिन्ताविवेचनविकलतां नीयमानं मनो यस्य । ( ३ ) प्रबलपापपटलम् । ( ४ ) स्वेन । (५) कुर्वन् । (६) प्राप्नुयात् । ( ७ ) तीव्रवेदनाम् । (८) अत्रापि जन्मनि । (९) रोगादिभिर्महतीं पीडाम् । (१०) तस्करः ॥२३॥
'दुरन्तदुःखाद्विषयात्तु 'बिभ्यता, विमुक्तसङ्गेन 'कृपानषङ्गिना( णा ) । 'वशेव सौभाग्यवता 'स्वकामुकी-क्रियेत 'केनाऽपि मरुगृहेन्दिरा ॥२४॥
(१) दुष्टावसानात् प्रान्ते कठिनविपाकात् । (२) भोगात् । ( ३ ) भयं बिभ्रता । ( ४ ) त्यक्तपुत्रकलत्रादिसांसारिकानुषङ्गेन (ण) । संसारस्नेहेनेत्यर्थः । ( ५ ) सर्वजन्तुषु कृपावता । (६) वनिता । ( ७ ) सुभगत्वभाजा पुंसा । ( ७ ) " वृषस्यन्ती कामुकी स्यात् " स्वाभिलाषिणी । (९) पुण्यवता । (१०) स्वर्गलक्ष्मीः ॥२४॥
-
2
'क्रमदुपक्रम्य 'समाधिना 'भवी, "भवं' 'पराभूय स शाम्भवं पदम् । 'स्वलोहतां "सिद्धरसेन "सन्त्यजन्, 'सुवर्णतां धातुरिव प्रपद्यते ॥२५॥
( १ ) परिपाट्या-स्वर्गे गत्वा नृभवं प्राप्य । (२) उपक्रमं कृत्वा चारित्राद्याचर्य । (३) ध्यानयोगेन । ( ४ ) संसारी जीवः । ( ५ ) संसारम् । (६) त्यक्त्वा । (७) पूर्वोक्तो विषयविरक्तः । ( ८ ) मुक्तिपदम् । (९) आत्मनो लोहत्वम् । (१०) रसकूपिकाजलेन । ( ११ ) मुञ्चन् । ( १२ ) स्वर्णत्वम् । (१३) धातुर्लोहनाम्ना । (१४) अङ्गीकरोति ॥ २५ ॥
1. जन्तुर्वि० हीमु० । 2. भवं स मुञ्चन्भजते महोदयम् । हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org