________________
१७२
..... श्री हीरसुन्दर' महाकाव्यम् 'स धर्मकिर्मारितसङ्कथास्वंथो, 'मिथः 'प्रवृत्तासु तमित्यँचीकथत् । “धराविधो ! बीजमिवाऽवनीरुहां, "वृषोऽस्त्यु पादानमशेषसम्पदाम् ॥१६॥
(१) सूरिः । (२) धर्मकरम्बितमिश्रिता वार्तासु । (३) तत्रोपवेशनानन्तरम् । (४) सूरिभूपयोः परस्परम् । (५) वर्तमानासु । (६) नृपतिम् । (७) कथयति स्म । (८) राजन ! । (९) तरुणाम् । (१०) धर्मः । (११) मूलकारणम् । (१२) सर्वविभवानाम् ॥१६॥
'अनक्षिलक्ष्याऽपि यथाऽनुमीयते, पयोदवृष्टिस्तटिनीपयःप्लवैः । 'विचक्षणैश्चेतसि तळते तथा, विभूतिभिः प्राक्सुकृतं पचेलिमम् ॥१७॥
(१) न दृग्गोचराऽप्यदृष्टाऽपि । (२) येन प्रकारेण । (३) अनुमानविषयीक्रियते । (४) मेघवर्णम् । (५) नदीजलपूरैरागतैः । (६) पण्डितैः । (७) विचार्यते । (८) सम्पद्भिः। (९) पूर्वजन्माचीर्णं पुण्यम् । (१०) परिपाकं प्राप्योदयमागतम् ॥१७॥
अभङ्गभोगाम्बुधिशम्बरीयता, धरेश ! धर्मेण विना 'जनुष्मताम् । 'अपार्थतामुद्वहते परं जनु-विना फलौघैरवकेशिनामिव ॥१८॥
(१) अनवच्छिन्नां-सदैव वर्तमाना भोगा-विभववनितादीनां सुखास्वादास्त एव समुद्रस्तत्र मीनानामिवाऽऽचरताम् । "शम्बरो दानवान्तरे मत्स्यैणगिरिभेदेषु" इत्यनेकार्थः । (२) राजन् ! (३) जनानाम् । (४) निरर्थकत्वम् । अपगतोऽर्थः - प्रयोजनं यस्य तस्य भावस्तत्ताम् । “अर्थो हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारे द्रव्यवस्तुषु" इत्यनेकार्थः । (५) केवलम् । (६) जन्म । (७) सस्यसमूहैः । (८) फलवन्ध्यानां निष्फलद्रुमाणाम् ॥१८॥
कुरङ्गनाभीमपहाय भूषितुं, स्ववर्म गृह्णाति 'निषद्वरं करे । 'निकृत्य गेहोपवने प्ररोपितं, सिताभ्रसालं वपते पादपम् ॥१९॥ 'अपास्य पीयूषरसं 'जिजीविषु-र्मुखांदहीन्दोः स्वदते गरं पुनः । विमुच्य धर्म नृप ! सार्वकामिकं, विमुग्धधीर्यो विषयेऽनुरज्यते ॥२०॥ युग्मम् ॥
(१) कस्तूरिकाम् । (२) त्यक्त्वा । (३) स्वशरीरम् । (४) पवं कचवरकम् । (५) छित्वा । (६) गृहारामे समीपवाटिकायाम् । (७) उप्तम् । (८) कर्पूरवृक्षम् । (९) वापयति । वपधातुरुभयपदी । (१०) अर्कतरुम् ॥१९॥
(१) त्यक्त्वा । (२) अमृतरसम् । (३) जीवितुमिच्छुः । (४) शेषनागस्य । (५) पिबति । (६) गरलम् । “सङ्गरं गरमिवाकलयन्ती"ति नैषधे । (७) सर्वान्कामान्करोति इति । "ऋतुं विधत्ते यदि सार्वकामिक" मिति नैषधे । (८) मूर्खः । अनभिज्ञमतिरज्ञानः । (९) भोगादौ । (१०) रक्तो भवति ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org