SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (१) त्रयाणां मत्पुत्राणाम् । (२) भवतां मङ्गलशंसनम् । (३) सर्वलक्ष्मीना( णा)म् । (४) एकान्ते मिथः प्रीतिभाजां सङ्गमस्थानम् । (५) कुल्यया । (६) वृक्षा इव । (७) श्रीमदाशिषा। (८) कुमाराः । (९) वृद्धि प्राप्नुवन्ति ॥२२४॥ इति नृपमणिवाणी कर्णपेयां प्रणीय व्यतरदयममीभ्यो धर्मलाभं मुनीन्द्रः । “अपि 'निजकरक्लृप्ताशेषराज्या इवैते १०ऽसमप्रमदसुधाब्धौ राजहंसीबभूव ॥२२५॥ इति पं. देवविमलगणिविरचिते हीरसौभाग्य(सुन्दर)नाम्नि महाकाव्ये शिवपुरीसमागमन - सुरत्राणनृपमहोत्सवकरण-आउआपुरेशतालासाधुपूजाप्रभावनानिर्मापण-मेडतानगरागमन-नागपुरीयविक्रमपुरीयसङ्घमहोत्सवकरण-फलवर्द्धिपार्श्वनाथयात्राकरण- महोपाध्यायश्रीविमलहर्षगणि पं० सी (सिं)हविमलगणिपुरःप्रेषण-साहिमिलन-तदुदन्ताकर्णना-ऽभिरामावादागमन-वाचकसम्मुखागम-श्रीसङ्घसम्मुखकरणोत्सवसाहिमिलन-कुशलप्रश्न-दूताकारण-तथागमविधिकथन-तीर्थकथन-साहिजाताशी:प्रदानवर्णनो नाम त्रयोदशः सर्गः ॥१३।। ग्रन्थाग्र० ३२३॥ (१) इत्यमुना प्रकारेण । (२) भूपतिरत्नवचनम् । (३) श्रवणाभ्यां पातुं योग्याम् । (४) कृत्वा । (५) अददात् । (६) सूरिः । (७) कुमारेभ्यः साहिजातेभ्यः । (८) कुमारा अपि । (९) निजहस्ते कृतसमस्तभूतलाधिपत्या इव । (१०) असाधारणहर्षक्षीरसमुद्रे । (११) राजहं[स]भावं भेजुः । अत्र प्रमदशब्दगतो रेफः पदभङ्गाय न, न यतिभङ्गाय । यथा- "बहुलभ्रामरमेचकतामसे" इति वृत्तरत्नाकरे ॥२२५॥ इति त्रयोदशः सर्गः ॥१३॥ ग्रन्थाग्र० ४५५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy