________________
ऐं नमः ॥
___ अथ चतुर्दशः सर्गः ॥ अथ प्रदेशी च स केशिनाऽमुना, "विधातुकामः सुकृतस्य सङ्कथाम् । 'इदं महीन्दुर्मुनिचन्द्रमब्रवीत्, "पुनन्तु पूज्या मम "चित्रशालिकाम् ॥१॥
(१) प्रदेशीनाम राजा । (२) अकब्बरः । (३) केशिगणधरेण च । (४) हीरविजयसूरिणा । (५) कर्तुं वाञ्छन् । (६) धर्मस्य । (७) वार्ताम् । (८) अग्रे वक्ष्यमाणम् । (९) साहिः । (१०) सूरिम् । (११) पवित्रीकुर्वन्तु । (१२) चित्रशालाम् ॥१॥
ततः कुकुद्मानिव भूमिमानसौ, तमित्युदीर्य क्रमचर्याऽचलत् । सहाँऽमुना सूरिरपि व्यसीसृप-द्विडौजसा सूरिरिवाऽमृतान्धसाम् ॥२॥
(१) मत्तवृषभ इव । (२) अकब्बरः । (३) सूरिम् । (४) कथयित्वा । (५) चरणचङ्क्रमणेन । (६) अग्रे प्रस्थितः । (७) साहिना सार्द्धम् । (८) गच्छति स्म । (९) इन्द्रेण । (१०) देवाचार्यः - बृहस्पतिः ॥२॥
'धरातराषाट शमिनां शशी पुनः, पथि 'प्रयान्तौ श्रयतः "परां श्रियम् । 'कथञ्चिदुर्व्यामिव केलिशालिनौ, "विभावरीवल्लभभानुमालिनौ ॥३॥
(१) पृथ्वीन्द्रः । “धरातुरासाहि मदर्थयाच्या" इति नैषधोक्तेः । (२) सूरीन्द्रः । (३) चित्रशालामार्गे । (४) चलन्तौ । (५) अनन्याम् । (६) शोभाम् । (७) लभेते । (८) केनापि प्रकारे[ण] कुतूहलादिना एकत्रमिलितौ । (९) भूमौ । (१०) क्रीडाभिः शोभनशीलौ । (११) चन्द्रसूर्यौ ॥३॥
'विभुज्य कण्ठं 'क्षितिपाकशासनो, दृशं 'दिदेश द्विरदद्विषन्निव । तथास्थितानेष गवेषयंस्ततो-ऽनंगारपारीन्द्रमुनीनंजूहवत् ॥४॥
(१) चक्रीकृत्य-पश्चाद्वालयित्वा । (२) गलनालम् । (३) अकब्बरः । (४) ददाति स्म । (५) सिंह इव । (६) यत्र मिलितास्तत्रैव स्थिताः । अथवा-ऊर्वीभूयैव तिष्ठन्तः । (७) पश्यन् । (८) ततः-स्वयोरग्रे आगमनानन्तरम् । (९) सूरीन्द्रसाधून् । (१०) आकारयामास ॥४॥
'सुरैरिवेन्द्रः कलभैरिव द्विपो, 'ग्रहैरिवोऽर्कश्च शशीव तारकैः । अदिद्युतद्वर्त्मनि "सूरिवासवो-ऽनुगम्यमानो "मुनिपुङ्गवैस्ततः ॥५॥
1. चरत् हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org