________________
त्रयोदशः सर्गः
१६७
कविधर्म एव पृथग्भवति । ( ४ ) ऋषभदेव ईश्वरस्य ( रश्च) । (५) रावण इव । ( ६ ) पर्वतान् भूपांश्च । (७) रणे साधून् सङ्ग्रामशौण्डान् । (८) बाहून् । ( ९ ) स्तम्भाकृतिविशेषान् । (१०) विंशतिर्जिनानाम् । ( ११ ) धारयति ॥ २१९ ॥
यं लक्ष्म्येव जिताः 'कुलावनिभृतः सोपानेदम्भाः(म्भात्) श्रिताः "जह्नुर्यत्परिखीचकार 'खधुनीं सोऽष्टापदः पर्वतः ।
तेजः सर्वसुपर्वणां परिभवन्भानुर्ग्रहाणां यथा
नाथो यत्र ‘फणिध्वजः समभवत्कांसीति तीर्थं पुनः ॥ २२० ॥
(१) श्रिया । ( २ ) अष्टौ कुलपर्वता मन्दरादयः । ( ३ ) आरोहणकायाः । ( ४ ) सगरचक्रिबृहत्पुत्रो जह्ननामा नृपः । (५) खातिकां कृतवान् । (६) गङ्गाम् । (७) सर्वेषां लौकिकानां हरिहरादिदेवानाम् ( ८ ) पार्श्वनाथ: । ( ९ ) जातः । (१०) वाराणसी नाम तीर्थम् ॥ २२० ॥ 'सूरिपुरन्दरगदिता-निति तीर्थान्मैंदिनीसुनासीरः ।
"श्रवणाभरणानीव, "व्यधित 'निजश्रोत्रपत्रयुगे ॥ २२१॥
(१) सूरीन्द्रकथितान् । ( २ ) तीर्थशब्दः पुंनपुंसके । "प्रस्थं तीर्थं प्राथमलिंद " इति लिङ्गानुशासने । ( ३ ) भूमीन्द्रः । (४) कर्णपूरानिव । (५) चक्रे । (६) स्वकीयश्रवणयुगले
॥२२१ ॥
अपि 'यतिपर्जन्योदित-तीर्थततिश्रुतिसुधारसः प्रसरन् । 'अविशन्मनसमुर्वी - भर्तुः कर्णप्रणालिकया ॥२२२॥
( १ ) यतीनां मध्ये पर्य( र्ज ) न्यः - शक्रः मेघश्च तस्मात्प्रकटीभूततीर्थभूततीर्थमालाश्रवणमेवाऽमृतरस: । (२) विस्तारं प्राप्नुवन् । (३) प्रविवेश । ( ४ ) मानसं मनः सरश्च । (५) राज्ञः पर्वतस्य च । अर्थाद् हिमाद्रिः । हिमाचले मानसं सरोऽस्ति । "सदा हंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नायाति यस्य साम्यं हिमाचलः ॥” इति चम्पूकथायाम् । (६) कर्णरूपा प्रणालिका जलागमनमार्गः ॥२२२॥
शेखूजी इत्येकः, पाटी अपरश्च दानीयार इति ।
४
'तिष्ठन्ति 'साहिजाता, अमी कुमारा इव सदाम् ॥२२३॥
(१) एते त्रयो ऽप्यकब्बरपुत्राः । ( २ ) श्रीमतामग्रस्थिताः सन्ति । ( ३ ) साहे: सकाशाज्जाताः । ( ४ ) देवानाम् ॥२२३॥
'एषामशिषमखिल-श्रीणां सङ्केतसदनमिव ददत ।
"सारिण्या शिखरिण इव, यथाऽनयाऽमी विवर्द्धन्ते ॥२२४॥
1. ० कायाश्रिताः हीमु० । 2. ० काशीति हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org