SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (१) त्रिभुवनजनानां मस्तकेषु शेखरायमाणचरणकमलयुगलः । (२) कवित्वम् । (३) कविरिव । " भवद्वृत्तं स्तोतुर्मदुपहितकण्ठस्य कवितु" रिति नैषधे । इति कवितृशब्दः । (४) युनक्ति स्म । ( ५ ) वचने ( न ] ॥२१६॥ १६६ राजन् ! यत्र 'पतिवरेव वृणुते कैवल्यलक्ष्मीं 'स्वयं “सङ्घाखण्डलमूनि वर्षति 'पयोऽब्दालीव 'राजादनी । यस्मिन् इव प्रयाति वृजिनं "मार्त्तण्डकुण्डाम्भसा तत्तीर्थं "विमलाचलो "विजयते "सौराष्ट्रचूडामणिः ॥२१७॥ (१) स्वयंवरा कन्येव । ( २ ) वरयति । ( ३ ) मुक्तिश्रीः । (४) आत्मना । (५) सङ्घपतिमस्तके । (६) दुग्धं पानीयं च । (७) वर्षाकाल इव । (८) प्रियालद्रुमः । "राजादनीतरुतले विमलगिरिरयं जयति तीर्थमिति पूर्वाचार्यस्तवे । ( ९ ) कर्दम इव । (१०) पापम् । ( ११ ) सूर्यकुण्डजलेन । ( १२ ) शत्रुञ्जयो मुख्यं तीर्थम् । (१३) सर्वोत्कर्षेण प्रवर्त्तते । (१४) सौराष्ट्रनाम्नो देशस्य शिखामणिरिव ॥२१७॥ आस्तेऽभ्रंलिहरैवताद्रिरपरः स्वस्याः पवित्रीकृते जाने सानुनिभेन "सप्तजगती यं सेवतेऽहर्निशम् । " शम्भोश्चन्द्रकलेव ' मूर्द्धनि पुनर्भाति स्म यस्याऽम्बिका ११ यस्मिन्नेमिजिनस्तथा गंजपदं कुण्डं पुनीते जगत् ॥२१८॥ (१) गगनचुम्बी गिरिनारगिरिः । ( २ ) आत्मन: । ( ३ ) पावनीकरणाय । ( ४ ) शिखरकपटेन । (५) सप्तजगति (ती) । “त्रिजगतीं पुनती कविसेविते 'ति जिनप्रभसूरेर्वचनात् । यथा त्रिजगती तथैव सप्तजगती । (६) नित्यं दिवारात्रौ च । ( ७ ) ईश्वरस्य । ( ८ ) मस्तके शिखरे च । ( ९ ) अम्बिका नाम देवी । (१०) नेमिनाथवन्दनावसरे इन्द्रेण ऐरावणपार्श्वे पदेन कारितं गजपदनामकुण्डम् - सर्वतीर्थावतारम् । ( ११ ) पवित्रयति । ( १२ ) विश्वम् ॥२१८॥ अस्त्यंद्रिप्रभुनन्दनोऽर्बुदगिरिर्यस्मिन्वसत्यात्मना स्थाणक्षोणिभृतीव कल्पितशिवाश्लेषो वृषाङ्कः प्रभुः । निर्जेतुं 'दशमौलिवत्र्क्षितिभृतः किं सांयुगीनान्र्भुजान् स्तूपान्विशतिंरंर्हतां "वहति यः सम्मेतशैलः परः ॥ २१९॥ ( १ ) हिमाचलपुत्रः । एतन्नाम तु वस्तुपालवसतिप्रशस्तिपट्टिकायां पूर्वाचार्यैर्लिखितमस्ति । लोकप्रसिद्ध्याप्यष्टाशीतिऋषिभिर्हिमाचलं याचित्वा गर्त्तायाः स्वधेनोः कर्षणाय तत्पुत्राऽर्बुदगिरिरानीत इति । (२) कैलाशे इव । ( ३ ) कृतः पार्वत्याः मुक्तेश्च आलिङ्गनं येन । किंच न हि गुणरूपाया मुक्तेराश्लेषो युज्यते, परमेतच्च कविमतम् - "नभःपरीरम्भणलोलुभेने "त्यादिवत्-तार्किकमतात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy