________________
१६५
त्रयोदशः सर्गः (१) वैराग्ये । (२) न पुत्रकलत्राद्यनुरक्तौ । (३) सन्तोष-निर्लोभतायाम् । (४) अपगुणे । (५) भूपते ! । (६) मोक्षे । (७) स्त्रीणाम् । (८) भोगे । (९) चित्तम् । (१०) पुष्टं कुर्वन्ति । (११) सूरयः । (१२) कुत्राऽपि स्थाने । आजन्मनि यावत् ॥२१०॥
भूलोके भोगिलोके च, स्वर्लोके स न कश्चन । आवाभ्यामुपमीयेत, योगिनां मौलिनाऽमुना ॥२११॥
(१) भूमौ । (२) नागलोके ।(३) देवलोके । (४) कोऽप्यन्यः । (५) उपमानीक्रियेत । (६) साधुमुकुटेन ॥२११॥
'नमश्चिकीर्षयोऽमीषां, तीर्थानामिव सर्वतः । परोलक्षा मृगाक्षीभिः, सममायान्ति मानवाः ॥२१२॥
(१) नमस्कर्तुमिच्छया ।(२) सूरीणाम् । (३) शत्रुञ्जयादितीर्थानामिव । (४) सर्वाभ्यो दिग्भ्यः । (५) लक्षसङ्ख्याः । (६) स्वप्रियाभिः समम् ॥२१२॥
'दूतास्यपद्मद्रहनिर्गतेति, व्रतीशितुः कीर्तिसुरस्रवन्ती ।
कूलङ्कषाना( णा )मिव नायकेन, 'महीमघोना हृदये 'न्यधायि ॥२१३॥
(१) सन्देशहारिवदनमेव पद्मद्रहस्तस्मानिर्गता । (२) इति पूर्वोक्तवर्णनया । (३) सूरेः । (४) कीर्तिरूपा गङ्गा । (५) समुद्रेणेव । (६) अकब्बरेण । (७) हृदयं-मनो वक्षश्च तत्र । (८) निहिता ॥२१३॥
येनोऽऽकरा रोहणवन्मणीना-ममी गुणानां गणिरोहिणीशाः । हूतास्ततोऽस्माभिरिहेत्युदित्वां, न्यवीवृतंन्नीरधिनेमिनाथः ॥२१४॥
(१) कारणेन । (२) खनिः । (३) रोहणाचल इव । (४) गणनायकः । (५) आकारिताः । (६) तस्मात्कारणात् । (७) अस्मिन्मण्डले फतेपुरे वा।(८) कथयित्वा निवर्तितः। मौनमाश्रितः । (९) भूपतिः ॥२१४॥
द्वाराणीव 'महानन्द-नगर्याः साधुसिन्धुराः । 'कानि वः सन्ति तीर्थानि, नृपः पप्रच्छ तानिति ॥२१५॥
(१) मुक्तिपुर्याः । (२) सूरयः । (३) किनामानि । (४) युष्माकम् । (५) सूरीन् । (६) इत्यमुना प्रकारेण ॥२१५॥
पतिर्यतीनां जगदुत्तमाङ्गो-त्तंसायमानक्रमपद्मयुग्मः । अर्थेन काव्यं कवितेव वक्त्रं, संयोजयामास स भोषितेन ॥२१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org