________________
त्रयोदशः सर्गः (१) चन्द्रम् । (२) निजबान्धवाद्भानोः । (३) प्राप्ताभ्युदयम् । सूर्यकान्ति सम्प्राप्य चन्द्र उदयति । यथा रघुकाव्ये- "पुपोष वृद्धि हरिदश्वदीधिते-रनुप्रवेशादिव बालचन्द्रमाः" इति । (४) कमले । (५) कृत्वा । (६) प्रेम्ना( म्णा)। भक्त्येत्यर्थः । (७) भालस्थलमध्ये । (८) अकब्बरम् । (९) भाषते स्म ॥२०२॥
आदिश्यतां देव ! 'निदेश्यमित्थं, 'निर्दिश्य तौ संश्रयतः स्म 'तूष्णीम् । 'धाराधरस्येव ऋतोविरामे, नभोऽम्बुपाम्भोदसुहृच्छकुन्तौ ॥२०३॥
(१) आदेशो दीयताम् । (२) कथनार्हम् । कथनीयम् । (३) उक्त्वा । (४) मौनम् । (५) भजतः स्म । (६) मेघस्य । (७) ऋतोविरहे । शरत्काले इत्यर्थः । (८) चातकमयूरपक्षिणौ ॥२०३॥
'भूमानिमावित्यवदत्ततोऽमी, कथं समीयुः पथि कीदृशाश्च । तावयवक्तां तर्मुपागतं स्व-र्बलिद्विषो हन्तुमिवाऽब्जनाभम् ॥२०४॥
(१) साहिः । (२) दूतौ प्रति । (३) अभाषत । (४) गन्धारनगरात् । (५) सूरयः । (६) समागताः । (७) मार्गे । (८) किं निष्ठाः । (९) दूतौ । (१०) अकथयताम् । (११) नृपम् । (१२) समागतम् । (१३) स्वर्गात् । (१४) बलिष्ठाद्वैरिणः, बलिनामानं रिपुम् । (१५) नारायणम् अब्जवन्नाभिर्यस्येति व्युत्पत्तिमात्रम् ॥२०४॥
'चूर्णैरिव स्वक्रमपद्मपांशुभिः, प्राचीनसूरिप्रकरैः प्रतिष्ठिताम् ।
सभाजयन्तः प्रतिमामिव क्षमा, क्रमाम्बुजाभ्यां पथि सञ्चरन्त्य मी ॥२०५॥
(१) वासयोगैरिव । (२) निजचरणकमलरेणुभिः । (३) पूर्वाचार्यसमूहैः । (४) पूज्यतया स्थापिताम् । (५) पूजयन्तः । सभाजनशब्दः पूजार्थो, यथा नैषधे - "सभाजनं तत्र ससर्ज तेषा" मिति । तथा क्रियाकलापे "सभाजनार्थे सभाजयति" । (६) परमेश्वरमूर्तिमिव । (७) भूमीम् । (८) पदपद्माभ्याम् । (९) मार्गे । (१०) चलन्ति । (११) सूरयः ॥२०५॥
श्रेणी सतामिव 'विमुक्तसमग्रदोषां, 'वल्भाममी विदधते सकृदेव देव ! । "आराधयन्ति विधिवद्विधृतावधाना, योगं "विधूतवनिताद्यखिलानुषङ्गम् ॥२०६॥
(१) उत्तमानाम् । (२) सर्वैर्दोषैराधाकर्मिकादिसप्तचत्वारिंशन्मितः अपगुणैश्च विरहिताम् । (३) भोजनम् । (४) सूरयः । (५) एकवारमेव । (६) साहे ! (७) साधयन्ति । (८) शास्त्रोक्तप्रकारेण विशेषेण धारितं संसारानित्यतायामवधानं मनो यैः । (९) यमाद्यष्टप्रकारसम्मतमवधानविशेषम् । (१०) निरस्तः स्त्रीप्रमुखो निखिलोऽनुषङ्गः सङ्गः परिचयो यत्र । एवं यथा स्यात्तथा ॥२०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org