________________
१६२
श्री हीरसुन्दर' महाकाव्यम्
'पुरो न मे किञ्चन 'तेन वृत्तं त्वया गुरूणां 'प्रतिपाद्यते स्म । यतः `स्वसद्माभिमुखीभविष्णु-मुपेक्षते कः सुरसौरभेयीम् ॥१९७॥
(१) ममाऽग्रे । (२) किञ्चिदपि । ( ३ ) तेन कारणेन । (४) चरितं यत्याचारादिकम् । (५) कथितम् । ( ६ ) स्वगृहसम्मुखीं भवनशीलाम् । (७) निवारयति स्म । ( ४ ) कामधेनुम ॥१९७॥
'रामाङ्गजो 'मध्यमलोकपाल - वक्त्रादिदं 'वाङ्मयमभ्युदीतम् । 'निपीय भृङ्गो मकरन्दम्भो - रुहादिवाँऽऽमोदभरं बभार ॥ १९८ ॥
(१) थानसिंहः । (२) स्वर्गपातालयोरपेक्षया मध्यलोको भूलोकस्तस्य पालयिताऽकब्बरस्तन्मुखात् । ( ३ ) वचोविलासम् । ( ४ ) प्रकटीभूतम् । (५) सादरं श्रुत्वा पीत्वा च । (६) कमलात् । (७) प्रमोदम् ॥१९८॥
'शशंस सभ्यानथ पार्थिवेन्दु-रानेतुमेतानिह केन मे । "तेऽप्यूचुरुर्वीन्द्रमजय्यवीर्य - मिवाऽवतीर्णं भुवि कार्त्तवीर्यम् ॥१९९॥
( १ ) अकथयत् । ( २ ) सभासदो नृपान् । ( ३ ) साहि: । ( ४ ) सूरीन् । ( ५ ) गतम् । (६) सभ्याः । (७) साहिम् । (८) जेतुमशक्यपराक्रमम् । ( ९ ) कृतावतारम् ॥१९९॥
मौन्दीकालाविति नामधेयौ, निदेशतः शासनहारिणौ वः ।
" इतोऽ जिहातामिव मूर्त्तिमन्तौ लेखौ 'वलेखाविव कामचारौ ॥१००॥
(१) मौन्दीकमालनामानौ । ( २ ) आदेशात् । (३) 'मेवडा' इति सं. ( संज्ञकौ ) दूतौ । (४) युष्माकम् । (५) साहिपाश्र्वात् । ( ६ ) गतौ आस्ताम् । (७) शरीरभाजौ । ( ८ ) देवाविव । ( ९) कामं - स्वेच्छया देवगत्यातिशयेन च चरणं ययोः ॥ २००॥
"
'तै: 'शासितुः 'शासनतः पृथिव्या, 'हूतौ पुरस्तादुपसेदतुस्तौ । 'वसुन्धराशेषविशेषवृत्ति, चिंगोचरीकर्तुमिर्वाऽस्य "नेत्रे ॥२०१ ॥
( १ ) सभ्यैः । ( २ ) पालयितुः । ( ३ ) आदेशात् । ( ४ ) भूमेः । (५) आकारितौ । (६) आगतौ । ( ७ ) दूतौ । ( ८ ) भूमेः समग्रां मित्रामित्रस्वभावं सूचयित्रीं वार्त्ताम् । ( ९ ) ज्ञातुम् । (१०) साहेः । (११) नयने ॥१०१॥
मुखं मृगाङ्कं मिलितुं 'स्वबन्धो - लब्धोदयं 'वारिरुहे वै ।
प्रणीय पाणी प्रणयेन मध्ये - गोधीति ' धात्रीशमंवोचतां तौ ॥ २०२ ॥
1. पाणी प्रणीय हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org