SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः इर्त्यप्यवक्किं न 'पदप्रचारै:, प्राप्स्यन्ति दुःखं यदिहाऽऽजिहानाः । ७ निगद्य भूमानिति ‘सारदीन- सारङ्गवन्मौनमधत्त वक्त्रे ॥१९२॥ ॥१९२॥ ( १ ) अपि - पुन: । (२) अकथय: । ( ३ ) चरचङ्क्रमणैः । (४) साहिपार्श्वे । (५) आजिहाना:-आगच्छन्तः । ( ६ ) कथयित्वा । ( ७ ) साहिः । ( ८ ) शरत्कालसम्बन्धी बप्पीह इव किमुत्तरं स्यादिह मन्दधीव - न्मीमांसते यावर्दसौ हृदीति । स दीर्घदर्शीव शशी रसाया, स्वं 'संशयानं प्रतिजल्पति स्म ॥१९३॥ (१) प्रतिवचः । ( २ ) अस्मिन्साहिप्रश्ने । (३) स्वल्पबुद्धिरिव । ( ४ ) विचारयति । (५) प्रत्युत्पन्नमति: । ( ६ ) दूरात्स्वपरयोर्हिताहितादिकं यः पश्येत्स दीर्घदर्शीत्युच्यते । ( ७ ) भूचन्द्रः । ( ८ ) सन्देहं कुर्वाणम् ॥१९३॥ 'एतद्वयं 'मानसमानर्साङ्क-वलक्षपक्षीकरवाम कामम् । इदं त्वयऽचिन्त्यत पुण्यलक्ष्मी माकाङ्क्षता क्षीरधिशायिनेव ॥१९४॥ (१) एतद्वक्ष्यमाणम् । (२) मन एव मानससरस्तत्र हंसीकरवाम । आत्त्या ( आशी: ) प्रेरणप्रयोगः । ( ३ ) इदं मया प्रोच्यमानम् । ( ४ ) चिन्तितम् । ( ५ ) वाञ्छता । ( ६ ) विष्णुनेव ॥१९४॥ 'स्वमण्डले 'भूतलशीतभानी ( सा ) - ऽऽनीयन्त एते यदि सूरिशक्राः । "सुधाशनाम्भोनिधिवल्लभाया, 'भगीरथेनेव पयः प्रवाहाः ॥ १९५॥ ७ १६१ (१) निजदेशे । ( २ ) साहिना । " इदं तमुर्वीतलशीतलद्युतिमिति नैषधे । (३) आगम्यन्ते । ( ४ ) श्रीहीरविजयसूरीन्द्राः । (५) देवनद्या:- गङ्गाया: । ( ६ ) भगीरथनाम्ना भूपेन । (७) जलप्लवाः ॥ १९५॥ 'सुधारसं प्रीतिभरेण पायं - पायं प्रभोदर्शननामधेयम् । तदा 'भामो वयमर्प्यमर्त्या, इव स्वभावादजरामरत्वम् ॥१९६॥ ( १ ) अमृतनिः स्यन्दः । ( २ ) मनोहार्द्दन । (३) पीत्वा पीत्वा । वीप्सार्थः पौनःपुण्ये( ये ) णमुल् पायं पायं गच्छति, भोजं भोजं व्रजती 'ति सारस्वते । ( ४ ) सूरीन्द्रस्याऽवलोकनं, तदेव नाम यस्य । 'नामरूपभागाद्धेय' इति हैमीवृत्तौ । (५) आश्रयामः । (६) देवा इव । ( ७ ) जरामरणराहित्यम् । अजरामरभावमित्यर्थः ॥१९६॥ १. ०शंसति हीमु० । २. ० साङ्के वल० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy