SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६० श्री हीरसुन्दर' महाकाव्यम् 'अहो निरीहैर्महतां वतंसै-भूर्भूषिताऽमीभिरिंवांऽशुभिः । 'तज्जन्मभिः पङ्कमिवाऽरविन्द( दैः), भवं परित्यज्य पृथग्भवद्भिः ॥१८७॥ (१) अहो इत्याश्चर्ये । (२) निःस्पृहैः । (३) समस्तसाधुजनेषु शेखरायमाणैः । (४) सूरिभिः । (५) शोभिता अलङ्कता पवित्रिता वा । (६) सूर्यैः । (७) गगनम् । (८) तत्रसंसारे पङ्के वा उत्पत्तिर्येषाम् । (९) कर्दमम् । (१०) कमलैः । (११) संसारम् । (१२) त्यक्त्वा । (१३) पृथग्भूतैः ॥१८७॥ चित्ते दर्धच्चित्रमिति क्षितीन्द्रः, पुर्युनक्ति स्म मुखं स वाचा । सौरभ्यविभ्राजिविजृम्भिताब्जं, घनात्ययो हंसमृगीदृशेव ॥१८८॥ (१) आश्चर्यम् । (२) योजयति स्म । (३) वाण्या । (४) परिमलैः शोभनशीलं विकस्वरं कमलम् । (५) शरत्समयम् । (६) हंस्या ॥१८८॥ 'ग्रीष्मागमेनेव मयोऽध्वगानां, 'वृथा व्यथा वः पथिजा व्यसजि । ‘एतन्मया गोधनवन्न किञ्चि-च्चक्रे स्वहगोचरसञ्चरिष्णु ॥१८९॥ (१) निदाघसमयेन । (२) पान्थानाम् । (३) मिथ्यैव । ( ४ ) पीडा । (५) युष्माकम् । (६) मार्गसम्भवा । (७) दत्ता । (८) पीडाकरणम् । (९) गोकुलमिव । (१०) निजहृदयविषये वर्तमानं सत्, तथा स्वं मदीयं धनं भूमि धनत्वात् तस्या हदि मध्ये यो गोचरः - गवां चरणस्थानं, तत्र सम्यक्चरणशीलम्, अथवा स्वहृदा निजमनसा निजेच्छया चरणक्षोण्यां भक्षणशीलम् ॥१८९॥ 'विघ्नाय जज्ञे 'भगवत्समाधे-रहं पयोवाह इवांऽशुभासाम् । युष्माकाकस्मिकदुःखजन्मा, तत्प्रत्यवायोऽजनि मे महीयान् ॥१९०॥ (१) अन्तरायकृते । (२) जातः । (३) पूज्यानां मनःस्वास्थ्यस्य ध्यानस्य वा । (४) मेघ इव । (५) सूर्यकिरणानाम् । (६) अकस्माद्भवं यदुःखं ततो जातः । (७) तस्मात्कारणात् । (८) अपराधः पापं वा ॥१९०॥ क्ष्माचक्रचक्रीत्यथ थानसिंह-मुद्दिश्य 'जग्राह वचो वचस्वी । 'हितैषिणा कल्प इवाउँदसीयः, पँन्थाः कथं नो कथितः पुरो 'मे ॥१९१॥ (१) भूमण्डलचक्रवर्ती । (२) उद्दिश्य-सम्मुखमालोक्य । (३) गृहीतवान् । (४) वचोयुक्तिमान् । (५) परस्येष्टापत्तिमभिलषतीत्येवं शीलेन । (६) आचार इव । (७) एतत्सम्बन्धी। "नासादसीया तिलपुष्पतूण"मिति नैषधे । (८) मार्गः-यत्याचारः । (९) केन कारणेन । (१०) अग्रे । (११) मम ॥१९१॥ 1. एतत्पुनर्गो० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy