SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १५९ अनित्यताभावनया पदार्थ- सार्थस्य 'विश्वस्य मनः पुनर्नः । पक्षोदैरिवाऽम्भः कतकस्य शश्व-त्प्रसन्नमास्ते वसुधासुधांशो ! ॥१८१॥ (१)"जे पुव्वते दिट्ठा ते अवरह्ने न दीसंती"ति वचनात्सर्वमनित्यं धर्म एव नित्यकार्य इति वासनया । (२) वस्तुव्रजस्य । (३) लोकस्य । (४) अस्माकम् । (५) चूर्णैः । (६) पानीयम् । (७) कतकनामफलस्य । (८) अनाविलम् निर्मलं चिन्तामुक्तम् । (९) भूचन्द्र ! ॥१८१॥ 'गोशीर्षसौरभ्यमिवोऽनिलेन, सन्देशहारिद्वितयेन हूतः ।। गन्धारनाम्नो नगरान्महीन्दो !, शनैः शनैर्वृद्धतया समागाम् ॥१८२॥ प्रतिकुशलालापः ॥ (१) चन्दनसुरभिताम् । (२) वायुना । (३) दूतयुगेन । (४) आकारितः । (५) राजन् ! । (६) वृद्धत्वेन । (७) समागतः ॥१८२॥ 'भूमानथाऽभाषत दूरदेशा-यूयं समेताः कथमेकॅपद्याम् । महेन्द्रवर्मत्तमतङ्गजेन, रथेन पाथोरुहबन्धुवद्वा ॥१८३॥ रेवन्तवद्वा तुरगेण 'दिव्य-यानेन 'वृन्दारकवर्गवद्वा । स प्रोचिवाज्झितयानमत्र, 'चरन्क्रंमाभ्यामहंमाजगाम ॥१८४॥ युग्मम् ॥ (१) राजा । (२) दूरस्थानात् । (३) केन प्रकारेण । (४) मार्गे । (५) इन्द्र इव । (६) हस्तिना । (७) सूर्य इव ॥१८३॥ (१) हववाहन इव । (२) मनोज्ञेन देवसम्बन्धिना वा यानेन - शिबिकादिकेन विमानेन च । (३) देवगण इव । (४) सूरिः । (५) बभाषे । (६) त्यक्तयानः । (७) श्रीमत्पावें । (८) चलन् । (९) चरणाभ्याम् । (१०) आगतः ॥१८४॥ भूयोऽप्युवाचेति न साहिबाख्य-खानेन युष्मभ्यमंदायि किञ्चित् । 'तुरङ्गमस्यन्दनदन्तियान-जाम्बूनदाद्यं दृढमुष्टिनेव ॥१८५॥ (१) पुनः । (२) साहिबखानेन । (३) न दत्तम् । ( ४ ) किमपि । (५) अश्वरथगजशिबिकास्वर्णादिः । (६) कृपणेनेव ॥१८५॥ गुरुं गौ बढदिशत्स मह्यं, त्वया नियुक्तो हरिणेव मेघः । पुनर्न किञ्चिन्निखिलानुषङ्ग-मुचा मयाऽग्राहि महीमहेन्द्र ! ॥१८६॥ (१) उवाच । (.२) भूयिष्ठम् (३) ददौ । (४) साहिबखानः । (५) श्रीमता । (६) समादिष्टः । (७) इन्द्रेण मेघः । (८) समस्तरामाधनादिसङ्गत्यागिना । (९) गृहीतम् । (१०) भूशक्र ! ॥१८६॥ 1. भूपो० होमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy