________________
१५८
श्री हीरसुन्दर' महाकाव्यम्
का सा पुरी 'प्रापि दशां दमीशै- 'र्वसन्तनिर्मुक्तवनानुरूपाम् । "अहो ! 'अहोभिर्बहुभिः पयोदै- रिवाँऽऽदिमैर्भूरियमन्वकम्पि ॥ १७६ ॥
( १ ) लम्भिता - नीता । ( २ ) अवस्थाम् । ( ३ ) वसन्तसमयरहितस्य पुष्पफलपत्रादिरहिततरुगणस्य काननस्य योग्याम्-सदृशाम् । ( ४ ) अहो इति सम्बोधने । (५) दिनैः । (६) मेघैः । (७) प्रथमैः । पुष्करावर्तनामभि: । ( ८ ) अनुगृहीता ॥ १७६ ॥
'इदं विनिर्दिश्य 'समुद्रकाञ्ची-रुच्ये मुखे चि( त ) वति मौनमुद्राम् । धर्मस्य " धात्रीमिव वृत्रशत्रु- र्वाचंयमानां स उवाच 'वाचम् ॥१७७॥
इति कुशला [ला ] पप्रश्नः ॥
७
(१) पूर्वोक्तम् । ( २ ) उक्त्वा । (३) भूभर्त्तरि । ( ४ ) मौनम् । (५) कुर्वति । ( ६ ) उपमातरम्-वर्धयित्रीम् । ( ७ ) शक्रः । (८) यतीनाम् । ( ९ ) वाणीम् ॥१७७॥
'क्ष्माकान्तकोटीरमणीमरीचि - मधुव्रतापीतपदारविन्दः ।
'अवेहि वार्त्तं सदामिवाऽऽप्त-वचः सुधापानविधायिनां नः ॥ १७८ ॥
(१) भूपतीनां मुकुटानां रत्नकान्तय एव भ्रमरैः, आ-सामस्त्येन पीते-आस्वादिते सेविते वा चरणकमले यस्य । " सुरासुरनराधीश - मधुपापीतपत्कज" इति सारस्वतव्याकरणप्रान्ते । (२) जानीहि । ( ३ ) अनामयम् । (४) देवानामिव । (५) तीर्थकृद्वचनामृतपानकारिणाम् । (६) अस्माकम् ॥१७८॥
'अश्वानिवक्षाणि निरीहभावै, रश्मिव्रजैर्यन्त्रयतां 'स्वयं नः । तपांसि 'निर्विघ्नतया 'शताङ्गा, इव प्रवर्त्तन्त उदारकान्ते ! ॥ १७९॥
( १ ) वाजिन इव । ( २ ) इन्द्रियाणि । ( ३ ) निःस्पृहताभिः । ( ४ ) रज्जूसमूहैः । (५) स्वायत्तीकुर्वताम् । (६) आत्मना । ( ७ ) नः - अस्माकम् । (८) विघ्नरहितत्वेन । ( ९ ) रथाः । (१०) जायन्ते चलन्ति च । ( ११ ) स्फारदीप्ते ! अथवा स्फारशोभ ! अथवा महती कान्तिरिच्छा यस्य ॥ १७९ ॥
'प्रत्यूहकृत्कोऽपि न नः समाधेः, कुतोऽशिवं स्याद्भुवि यत्त्वीशे । "गृहाङ्गणस्थायिनि कल्पशाखिन्युपद्रवेत्किं नु दरिद्रभावः ॥१८०॥
Jain Education International
( १ ) विघ्नकर्त्ता । ( २ ) अस्माकम् । ( ३ ) मनःस्वास्थ्यस्य ध्यानस्य वा । ( ४ ) कस्मात् । (५) अकल्याणम् । (६) यस्मात्कारणात् । (७) भवति । ( ८ ) स्वामिनि । ( ९ ) भूमौ । अशिवोपशामके । (१०) भवनद्वारस्थिते । ( ११ ) कल्पतरौ । (१२) उपद्रवं कुर्यात् । ( १३ ) दारिद्यम् ॥१८०॥
For Private & Personal Use Only
www.jainelibrary.org