________________
त्रयोदशः सर्गः
१५७ "परमाधार्मिकतिथयश्चन्द्रकलाः पञ्चदश भवन्तीहे"ति काव्यकल्पलतायाम् । तथा तत्रैव - "तिथिं तिथिं प्रति स्वर्गिभोग्यैकैककलाधिका । कला यस्येशपूजासीदेकः श्लाघ्यः स चन्द्रमाः" इति वचनात् ॥१७०॥
किं राजधानी शममेदिनीन्दो-र्धवं 'धुनीनामिव वा समाधेः ।
सङ्केतसद्देव गुणावलीनां, धर्मस्य साम्राज्यमिवाऽऽर्हतस्य ॥१७१॥
(१) स्कन्धावारो( रः) (२) शमराजस्य । (३) ध्यानस्य । (४) समुद्रमिव । (५) सङ्केतेन मिलनगृहम् । (६) गुणश्रेणीनाम् । (७) सर्वथाऽधिपत्यमिव । (८) जैनस्य ॥१७१॥
उरो मुरारेः सुभगत्वलक्ष्म्याः , कृपामृतस्येव पतिं 'तमीनाम् । भाग्यस्य वा कोशमिवाऽक्षयन्तं, क्षान्तिस्त्रवन्त्या इव सानुमन्तम् ॥१७२॥
(१) नारायणवक्षःस्थलम् । (२) सौभाग्यश्रियाः । (३) चन्द्रमिव । (४) पुण्यस्य । (५) अक्षयम् । (६) भाण्डागारम् । (७) क्षमानद्याः । (८) पर्वतम् ॥१७२॥
'यशःसुमस्येव सुपर्वसालं, किं ज्ञानभानोरुदयाचलं वा । सप्तर्षिपुत्रं किमु चित्रवाचा-मिवाऽऽकर लब्धिमणीगणानाम् ॥१७३॥
त्रयोदशभिः कुलकम् ॥ हीरसूरिवर्णनम् ॥ (१) श्लोककुसुमस्य । (२) कल्परुम् । (३) ज्ञानसूर्यस्य । (४) बृहस्पतिम् । यथा चित्रशिखण्डिनन्दनस्तथा सप्तर्षिपुत्रः । (५) नानावचनानां खनिम् । (६) लब्ध[य] एव मणिगणास्तेषाम् ॥१७३॥
तं व्याजहारैति 'महीमहेन्द्रो, 'जागर्ति वार्तं खलु युष्मदङ्गे । हिमं सरः पद्ममिवोऽध्वजन्मा, क्लमोऽपि नौऽऽक्रामति वः शरीरम् ॥१७४॥
(१) सूरिम् । (२) उवाच । (३) वक्ष्यमाणम् । (४) अकब्बरसाहिः । (५) विद्यते । "सत्तायामस्त्यास्ते जागतिं च विद्यते" इति क्रियाकलापोक्तेः । (६) अनामयम् । (७) श्रीमतां शरीरे । (८) सरोवरकमलम् । (९) मार्गजातः । (१०) परिश्रमः । (११) न पीडयति । (१२) युष्माकम् ॥१७४॥
तपांसि वः सन्|नघानि कश्चि-नाऽऽस्ते समाधेः 'प्रतिबोधकश्च । मनः प्रसन्नं पुनरस्ति नीरं, पद्माकरस्येव घनव्यपाये ॥१७५॥
(१) प्रशस्यानि निरन्तरायानि( णि) । (२) ध्यानस्य । (३) विघ्नविधाता । (४) अनाविलं-चिन्तारहितम् । (५) तटाकस्य । (६) शरदागमे ॥१७५॥ 1. ०बन्धकश्च हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org