________________
१५६
श्री हीरसुन्दर' महाकाव्यम् दण्डं 'स्वपाणौ दधतं स्वबाहा-जितं भजन्तं किमु कल्पसालम् । 'कल्पं मुनीनामिव मूर्तिमन्तं, कल्पं निजाङ्गे पुनरुद्वहन्तम् ॥१६५॥
(१) निजहस्ते । (२) निजभुजपरिभूतम् । (३) सेवमानं कल्पसालम् । (४) आचारम् । (४) अङ्गयुतम् । (६) प्रावरणविशेषम् । (७) दधानम् ॥१६५॥
बुधैर्न दोषाकरवंशजातै-मरोलयानैर्न च नाऽभिजातैः । 'प्रत्यर्थिभिश्चित्तभुवो न रुद्र- “निर्ग्रन्थनाथैरनुगम्यमानः ॥१६६॥
(१) बुधैः - सौम्यैः रोहिणीतनयैः । (२) न चन्द्रपुत्रैरिति विरोधः । तत् - शान्त्यै -प्राज्ञैः दोषयुक्तकुले न जातैर्विशुद्धवंशजन्मभिः । (३) हंसवत् हंसेन च गमनं येषाम् - न धातृभिः । (४) न न अभिजातैःकुलीनैः । अपितु अभिजातैः । द्वौ नौ प्रकृत्यर्थं गमयतः । (५) वैरिभिः । (६) स्मरस्य । (७) शिवैर्न-सौम्यैः । (८) मुनिपतिभिः ॥१६६॥
एक किमद्वैततया 'जगत्यां, कुमुद्वतीकान्तमिव द्वितीयम् । तृतीयमक्ष्णोरिव चन्द्रचूड-ब्रह्माच्युतानामिव वा चतुर्थम् ॥१६७॥
(१) असाधारणत्वेन । (२) विश्वे । (३) चन्द्रमिव । (४) नयनयोः । (५) ब्रह्मविष्णुमहेश्वराणाम् ॥१६७॥
चतुर्ष वेदेष्विव पञ्चमं वा, षष्ठं द्रुमाणामिव निर्जराणाम् । किं सप्तमं मूर्त्तिमतामृतूनां, श्रो(स्रो )तःपतीनां पुनरष्टमं वा ॥१६८॥
(१) पञ्चमं वेदमिव । (२) षष्ठं कल्पद्रुममिव । (३) सप्तमं ऋतुमिव । (४) अष्टमं समुद्रमिव ॥१६८॥
अधीश्वराणां नवमं दिशां वा, कुण्डं सुधानां दशमं किमुाम् । एकादशं वा 'व्रतिनां वृषेषु, किं द्वादशं श्रीगणपुङ्गवानाम् ॥१६९॥
(१) नवमं दिक्पालमिव । (२) दशमं सुधाकुण्डमिव । (३) एकादशं साधुधर्ममिव । (४) द्वादशं गणधरमिव ॥१६९॥
त्रयोदशं वाऽम्बुजबान्धवानां, विश्वेषु देवेषु चतुर्दशं वा । रत्नेषु वा पञ्चदशं कलासु, शरःसु( रत्सु )धांशोरिव षोडशं वा ॥१७०॥
(१) त्रयोदशं सूर्यमिव । (२) चतुर्दशं विश्वदेवमिव । (३) पञ्चदशं रत्नमिव । (४) शरच्चन्द्रस्य षोडशकला । पञ्चदशसु तिथिषु पञ्चदशैव कला षोडशी कला तु शिवमस्तकेऽस्ति । तथा 'षोडशीमपि कलां किल नोर्वी" इति नौषधोक्ते: चेन्द्रे पञ्चदशैव कलाः सन्ति । तथा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org