SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १५५ शरीरे लग्नां स्यूतामिवाऽर्द्धाभूताम् । अर्द्धशम्भुरिति प्रसिद्धात् । तथा "प्रसह्य चेतो हरतोऽर्द्धशम्भु "रिति नैषधे । (९ ) अङ्गीकृतमुनिवृत्तिः ॥१५९॥ -- 'प्रलम्बबर्हिर्मुखशाखिशाखा - बाह: 'स्फुरत्काञ्चनवारिमश्रीः । उत्कन्धरो भूमिधरः सुराणां किं वाऽद्भुताद्भूतलसञ्चरिष्णुः ॥ १६० ॥ (१) दीर्घो (र्घा) कल्पतरुशाखा एव भुजा यस्य । (२) दीप्यमाना कनकवत्कनकस्य च रमणीयता यस्य । (३) उच्चैः शिरा महात्मा । ( ४ ) सुरशैलः । (५) आश्चर्यात् । (६) भूमिमण्डले सञ्चरणशीलः ॥ १६० ॥ 'साम्राज्यमासाद्य दिवस्त्रिलोक्या, "आशंसमानः पुनर्राधिपत्यम् । 'तपस्तपस्यकिमुत 'क्षमायां, पुरंदरोर्ड पास्त पुरन्ध्रिपाशः ॥ १६९ ॥ (१) समस्तविमानदेवानां शासितां नायकत्वम् । (२) प्राप्य । (३) देवलोकस्य । (४) त्रिभुवनस्य । (५) इच्छन् । (६) प्रभुताम् । (७) तपः कुर्वन् । (८) अथवा । (९) भूमौ । (१०) इन्द्र: । ( ११ ) त्यक्तः स्त्रीणां पाशो येन स्त्रिय एव वा पाशो येन ॥ १६१॥ यावद्वितर्कानिति तर्कशास्त्रा- धीतीव चित्ते कुरुते क्षितीन्द्रः । “निर्ग्रन्थनाथं 'निजसन्निकर्षं, विभूषयन्तं पिबति स्म तावत् ॥१६२॥ ( १ ) विचारान् । ( २ ) तर्कशास्त्रेषु अध्ययनमस्त्यस्येति, तद्वत् । ( ३ ) साहि: । ( ४ ) सूरीन्द्रम् । ( ५ ) स्वसमीपम् । ( ६ ) अलङ्कुर्वाणम् । (७) सादरमवलोकयति स्म ॥ १६२ ॥ 'सुत्रामगोत्राधिकगौरवेण, मार्गे मया सम्भ्रमगामिनाऽसौ । 'दुरूढभूर्भोगिविभुर्विषादी, ' मा स्तार्दितीवाँऽत्वरया 'चरन्तम् ॥१६३॥ (१) मेरोरधिका गुरुता यस्य । ( २ ) त्वरितगमनशीलेन । (३) दुःखेन धृता भूमिर्येनशेषनाग: ( ४ ) खेदवान् । (५) मा भवतु । ( ६ ) इति हेतो: । ( ७ ) शनै: शनै: । ( ८ ) चलन्तम् ॥१६३॥ , इमे 'चले 'मेचकिमाङ्किते च तदौचिती 'रोद्धुमदःप्रचारम् । नेत्रे क्षिपन्तं किमिति प्रमातं, 'युगन्धरायां पुरतो 'धरायाम् ॥१६४॥ ( १ ) चपले । ( २ ) श्यामत्वयुक्ते । ( ३ ) तस्मात्कारणात् । ( ४ ) योग्यता । (५) अनयोः प्रसरम् । (६) निवारयितुम् । (७) प्रमाणीकृतम् । (८) कूबरं - ' धूसर 'मिति लोकप्रसिद्धंयस्याम् । ( ९ ) पृथिव्याम् ॥१६४॥ 1. ० वाह: हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy