________________
१५२
श्री' हीरसुन्दर' महाकाव्यम्
'निरञ्जनः कम्बुरिव व्यपास्त - निश्शेषदोषः पुनरर्यमेव । "ज्योतिर्मयो वह्निरिवाऽस्तमूर्ति - मनाङ्कवद्यः परमेशिर्तास्ते ॥१४४॥
( १ ) निर्गतमञ्जनं-रजआदिर्लेपो यस्य । कर्मरहितः । (२) शङ्खः । 'संखो इव निरंजणे' इति सिद्धान्तवाक्यात् । ( ३ ) निरस्तापगुणाः - निर्दोषः निहतरात्रिश्च । ( ४ ) भानुः । ( ५ ) परमज्योतिःस्वरूपः तेजोमयः । ( ६ ) शरीररहित: । ( ७ ) स्मर: । (८) विद्यते । "सत्तायामस्त्यास्ते" इति क्रियाकलापोक्तेः ॥१४४॥
भर्वभ्रमीभङ्गिभरो 'भवीव, किं रूपमाधाय 'सभांगमी सः । "क्षेप्ता पुनर्दोयकिभिस्तिगत्यो - जनस्य कं हेतुमिह प्रतीत्य ॥१४५॥
( १ ) संसारभ्रमणीनां रचनानां समूहो यस्य । " अपि भ्रमीभङ्गिभिरावृताङ्गमि " ति नैषधे । ( २ ) संसारीव । ( ३ ) कीदृक्स्वरूपम् । (४) कृत्वा । ( ५ ) सभां गमिष्यतीति सभांगमी । (६) क्षेप्स्यति । (७) नरकस्वर्गलक्षणगत्योः । ( ८ ) रागद्वेषादिकं कारणम् । रागद्वेषौ विना शुभाशुभकरणं न स्यात् । तस्य तु तावेव न स्तः । ततः कं हेतुम् । ( ९ ) समाश्रित्य ॥ १४५ ॥
सुखासुखानि प्रभविष्णु दातुं पचेलिमं प्राक्तनमेव कर्म । "तस्यैव 'तत्कारणम( ता ) स्तु 'मञ्जा - गलस्तनेनेव किमँत्र 'तेन ॥१४६॥
( १ ) समर्थम् । ( २ ) परिपाकं प्राप्तम् । ( ३ ) पूर्वजन्माचीर्णम् । ( ४ ) कर्मण एव । (५) जगत्कर्तृता । (६) छागिकाकण्ठकुचेन । निष्फलेन । (७) लोके । (८) परमेश्वरेण ॥१४६॥
इदं 'गदित्वा 'विरते 'व्रतीन्द्रे, शेख : पुनर्वाचमिंमार्मुवाच । विजायते तद्बहुगर्ह्यवाचो, 'वाचीव 'तथ्येतरता "तौ ॥ १४७॥
१०
( १ ) कथयित्वा । ( २ ) निवृत्ते । ( ३ ) सूरीन्द्रे । ( ४ ) द्वितीयवारम् । ( ५ ) वक्ष्यमाणाम् । (६) बभाषे । (७) वाचाटस्य । (८) वचने । ( ९ ) अलीकता । (१०) कुराणवाक्ये ॥ १४७॥
'भाण 'भूयः प्रभुतमेत-त्स्रष्टा' 'जगत्पूर्वमिदं 'विधत्ते ।
१०
" तत्केतुवत्सं रते स पश्चा- तैत्तोऽस्ति तस्याऽप्यसमश्रमोऽसौ ॥१४८॥
( १ ) उवाच । ( २ ) द्वितीयवारम् । (३) सूरिः । (४) शेखम् । (५) एतद्वक्ष्यमाणम् । (६) विधाता । (७) विश्वजनम् । (८) प्रथमम् । ( ९ ) करोति । (१०) जगत् । ( ११ ) धूमकेतुरिव । (१२) क्षयं नयति । (१३) स्रष्टा । (१४) कल्पान्तकाले । (१५) तस्मात्कारणात् । ( १६ ) जगत्कर्त्तुः । ( १७ ) असाधारणक्लेशः । जगतां करणसंहरणलक्षणः ॥१४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org