________________
१५१
त्रयोदशः सर्गः (१) दर्पणिकायाम् । (२) प्रतिबिम्बयित्वा - सम्यग्ज्ञात्वा । (३) सम्यक्प्रकारेण शुद्धायां स्व-पर-व्यवसायरहितायां निजस्य प्रज्ञायाम् । (४) करिष्यते । (५) सम्यक् । (६) परमेशिता । (७) सभायाम् । (८) सर्वजनस्य । (९) सदसद्व्यवहारं विचारं वा । (१०) त्यक्त्वा । (११) अयं स्वकीयः, अयं च परकीय इति ज्ञानम् । सांसारिकव्यवहारमेनम् ॥१३८॥
'विमृश्य विश्राणयिता फलं स, श्रेयोऽहसोस्तस्य ततोऽनुरूपम् । मसूरंगोधूमयवादिधान्य-बीजस्य सस्योत्करमुंवरेव ॥१३९॥
(१) विचार्य । (२) दास्यति । विश्राणयितेति श्वस्तनीप्रयोगः । (३) पुण्यपापयोः । (४) सर्वलोकस्य । (५) योग्यम् । (६) गोधूमप्रमुखधान्यानां बीजस्य । (७) धान्यसमूहम् । (८) निष्पद्यमाननिखिलधान्या भूमिः ॥१३९॥
'नावोऽम्बुधेः कूलमिवाऽनुकूल-वातेन भिस्ति गमिता अनेन ।
भोक्ष्यन्ति भाग्याद्भुतभोगभङ्गी-तरङ्गिताः केऽपि ततः सुखानि ॥१४०॥ __ (१) यानपात्राः । (२) तटम् । (३) प्रशस्तपवनेन । (४) स्वर्गम् । (५) प्रापिताः । (६) परमेश्वरेण । (७) पुण्यपरिपाकेनाऽऽश्चर्ययुक्तभोगभङ्गीभिः प्रमोदभाजः । (८) स्वर्गगमनानन्तरम् ॥१४०॥
श्येनैः शकुन्ता इव पीडयमानाः, 'कुम्भाः कुलालैरिव पच्यमानाः । 'तद्गोप्तृभिर्दोयकिमनसाऽन्ये, प्राप्स्यन्ति दुःखान्यपि तेन "नीताः ॥१४१॥
(१) सिञ्चानकैः । (२) विहङ्गाः । (३) घटाः (४) कुम्भकारैः (५) नरकपालैः । (६) नरकम् । (७) पापेन । (८) पापिनः । (९) परमेश्वरेण । (१०) प्रापिताः ॥१४१॥
'कुराणवाक्यं किमिदं यथार्थं, 'महात्मनां वाक्यमिवाऽस्ति सूरे ! । इव प्रसूने गगनस्य तस्मि-Qताऽभ्युदेति व्यभिचारिभावः ॥१४२॥
(१) तुरुष्कशास्त्रविशेषवचनम् । (२) सत्यम् । (३) साधूनाम् । (४) पुष्पे (५) आकाशस्य । (६) कुराणवाक्ये । (७) अथ वा (८) प्रकटीभवति । (९) असत्यता ॥१४२॥
इदं निगद्य व्यरमत्स तस्य, बुभुत्सया वाङ्मयवेदितायाः । 'ततो बिडौजा यतिनामिवैक -धुरां सिताया भणति स्म वाणीम् ॥१४३॥
(१) पूर्वोक्तम् । (२) कथयित्वा । (३) विरराम । मौनं कृतवानित्यर्थः । (४) शेखः । (५) सूरेः । (६) ज्ञातुमिच्छया । (७) शास्त्रज्ञातृतायाः । (८) शेखवाक्यानन्तरम् । (९) इन्द्रः । (१०) साधूनाम् । (११) एकां धुरं वहतीत्येकधुरां तुल्याम् । (१२) शर्करायाः ॥१४३॥ 1. ०न हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org