SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५० श्री हीरसुन्दर' महाकाव्यम् साहिसौधसन्निधाने । (५) पूज्यत्वाद्वहुवचनम्-चरणकमलैः ॥१३२॥ सन्देह सन्दोहमहाम्बुवाह-महाबलेन व्रतिवासवेन । 'बोद्धा श्रुते' श्राद्ध इव स्वधाम्नि, धर्त्यां स गोष्ठीमतिष्ठति स्म ॥१३३॥ (१) संशयसमूहमहामेघवाका यु)ना । (२) सूरिणा । (३) ज्ञाता - अवगन्ता । (४) शास्त्रे । (५) धर्मसम्बन्धिनीम् । (६) चकार ॥१३३॥ 'हिंसादये निर्दिशती 'विरोधि-धर्मे मिथः स्वीयतदीयशास्त्रे । क्षीराम्भसोर्हसमिवाँऽधिगत्य, तयो ‘विवेक्तारमंसौ पुनस्तम् ॥१३४॥ पुपोषं भाषां स्वमुखेन शेखः, 'पुरो 'विनेयायितवृत्तिरस्य । नतिं दधानो विनोदधीतां, पाणौ प्रणीतात्सुँगुणादिवोऽस्त्रात् ॥१३५॥ युग्मम् ।। (१) जन्तूनां वधं कृपां च । (२) कथयन्ती । (३) विरुध्यत इत्येवंशीलो धर्मो ययोस्ते । (४) परस्परम् । (५) शेखसम्बन्धि सूरिसम्बन्धि च आगमौ । (६) दुग्धजलयोः । (७) ज्ञात्वा । (८) सदसद्विवेककर्तारम् । (९) शेखः । (१०) अधिगत्येति द्विरुच्यते इति पुनः शब्दार्थः ॥१३४॥ (१) बभाषे । (२) अग्रे । (३) शिष्य इवाऽऽचरिता मनोवृत्तिर्यस्य । ( ४ ) नम्रताम् । (५) पठिताम् । (६) हस्ते । (७) कृतात् । (८) शोभान]गुणवतः । (९) धनुषः ।१३५॥ पड़(पैगम्बरैनः समयेषु सूरे, 'पुरातनैाहृतमेतदास्ते । "निक्षिप्यते न्यास इव क्षमायां, ‘यमातिथिर्यो यवनस्य वंश्यः ॥१३६॥ खुदाह्वयश्रीपरमेश्वरस्या-ऽऽस्थानी स्थितस्याऽधिपते रिवोाः । उत्थाय पृथ्व्याः परिवर्तकाले, गन्ता समग्रोऽपि जनः पुरस्तात् ॥१३७॥ युग्मम् ॥ (१) अस्मद्वृद्धपुरुषैः । (२) शास्त्रेषु । (३) प्राचीनैः । ( ४ ) उक्तम् । (५) स्थाप्यते । (६) स्थापनिकेव । (७) भूमौ । (८) मृतः । (९) तुरुष्कगोत्रजन्मा ॥१३६॥ (१) खुदा इत्यस्मत्परम्परायां नाम यस्य तादृक्परमेश्वरस्तस्य सभायाम् । (२) उपविष्टस्य । (३) पृथ्वीपतेरिव । (४) कल्पान्तकाले । (५) यास्यति । (६) समस्तः । (७) तस्याऽग्रे ॥१३७॥ आदर्शिकायामिव पुण्यपापे, 'सङ्क्राम्य संशुद्धनिजोपलब्ध्यौ । 'विधास्यते 'साधु स तत्र तस्य, न्यायं निरस्य स्वपरावबोधम् ॥१३८॥ 1. श्रुतेः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy