SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४९ त्रयोदशः सर्गः (१) कथयित्वा । (२) समुद्रवद्गम्भीरध्वनियंत्र । (३) मौनम् । “जोषमासनविशिष्य बभाषे” इति नैषधे । (४) साहिः । (५) स्त्रीयुक्तम् । (६) तडिद्भिः शोभनशीलम् । (७) भानुः । (८) मेघम् ॥१२६॥ घनादधीतामिव शेखशक्रो, वाणी समाकर्ण्य हमाउंसूनोः । "निरीय तस्याः सदसो बभाज, भुवं व्रतीन्द्रेण विभूष्यमाणाम् ॥१२७॥ (१) मेघात् । (२) पठिताम् । (३) श्रुत्वा । (४) पातिसाहेः । (५) निर्गत्य । (६) साहिसभायाः । (७) सूरिणा । (८) अलंक्रियमाणाम् ॥१२७॥ भक्त्या 'नताको बहुमन्यमानः, 'स्वमन्दिरं सरिपुरन्दरं सः । 'निनीषति स्माऽखिलशेखपूषा, नाऽऽशंसते निर्जरशाखिनं कः ॥१२८॥ (१) नम्रवपुः । (२) बहुमानं ददानः । (३) स्वगृहम् । (४) आनेतुं काङ्क्षति स्म । (५) समस्तशेखजातिषु सूर्यसमः । (६) न वाञ्छति । (७) कल्पतरुम् ॥१२८॥ अथो पृथिव्या उशना इवाऽसौ, 'निःशेषशास्त्रोपनिषधंधीती। अस्पृष्टशिष्टेतरवृत्ति तस्मै, 'न्यजीगदत्तन्निखिलं निगाद्यम् ॥१२९॥ (१) भूमेः । (२) शक्र इव । (३) समस्तयवनशास्त्ररहस्ये । (४) विद्वान् । (५) अनाश्रितदुर्जनमार्गः । (६) भाषते स्म । (७) साहिवाक्यम् ॥१२९॥ तदुक्तियुक्तौ सनिदर्शनायां, शेखं निरस्तप्रतिबन्धृभावम् । श्रुतौ प्रबन्धारमिव प्रवीण-धुरीणमेनं बुबुधे बुधेन्द्रः ॥१३०॥ (१) साहिसन्दिष्टवाक्ययोजनायाम् । (२) दृष्टान्तसहितायाम् । (३) मुक्ता प्रतिबन्धकता दूषकत्वं येन । (४) प्रबन्धकर्तारम् । “विहंगमद्भाषितसूत्रपद्धतौ प्रबन्धृतास्तु प्रतिबन्धृता न ते" इति नैषधे । (५) सूरिः ॥१३०॥ 'निशम्य तद्भाषितमेष 'धात्री-सहस्त्रनेत्रस्य ततो व्रतीन्द्रः । इयेष शेखस्य गृहं प्रयातुं, सुरेन्द्रसद्धेव सुपर्वसूरिः ॥१३१॥ (१) श्रुत्वा । (२) भूपतेः । (३) काङ्क्षति स्म । (४) इन्द्रगृहम् । (५) बृहस्पतिः ॥१३१॥ शुश्रूषमाणस्य विशिष्य शिष्य-स्येवाऽस्य शेखस्य वृषा मुनीनाम् । गेहं महीपालगृहोपकण्ठे, पवित्रयामास पदारविन्दैः ॥१३२॥ (१) सेवां कर्तुमीहमानस्य । (२) विशेषप्रकारेण कृत्वा । (३) इन्द्रः । (४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy