________________
१४७
त्रयोदशः सर्गः 'प्राग्भूमिभृत्स्वाभ्युदयाभिलाषी, 'द्वीपेऽपरस्मिन्निव रश्मिमाली । 'निजाननन्यकृतशीतकान्ति-स्तस्मिन्नशेषां स उषामनैषीत् ॥११५॥
(१) प्राची दिशः नृपात्स्वस्योन्नति काङ्क्षतीत्येवंशीलः । उदयाचलाच्च निजाभ्युद्गममभिलषतीत्येवंशीलः । 'उदयः पर्वतोन्नत्यो 'रित्यनेकार्थः । (२) सूर्यः । (३) स्वस्य मुखेन आगमनावसरेण च जितो मन्दीकृतश्च चन्द्रो येन । (४) सामन्तगृहे । (५) रात्रिम् । (६) अतिक्रमति स्म ॥११५॥
'प्राभातिकं कृत्यमथ प्रणीय, तृणीकृतांहा 'विशदाशयश्च । फतेपुरं प्रत्यचलद्वतीन्द्र, इवाउँम्बुधिं सिद्धधुनीप्रवाहः ॥११६॥
(१) प्रतिक्रमणादि । (२) कृत्वा । (३) निर्मा( र्णा )शितपापः । (४) विशुद्धमनाः निर्मलमध्यश्च । (५) समुद्रम् । (६) गङ्गारयः ॥११६॥
स श्रीकरी कैरविणीशकीर्तिः, प्राचीविशंद्विश्वजनीनमूर्तिः । 'महःसमूहोऽम्बुजबान्धवस्य, विभावरीवल्लभमण्डलीवत् ॥११७॥
(१) चन्द्रवद्विशदयशाः । (२) विश्वजनेभ्यो हिता मूर्तिर्यस्य । (३) किरणकलापः । (४) चन्द्रबिम्बमिव । मण्डलशब्दस्त्रिलिङ्गे - "शुद्धा सुधादीधितिमण्डलीव" इति नैषधे ॥११७॥
मुमुक्षुशक्रः सदसत्समीक्षा-हल्लेखिताशेषजगत्प्रदीपः । 'मनोरथः 'सिद्धिमिवाऽवनीप-प्रवेशनक्षोणिमलञ्चकार ॥११८॥
(१) शुभाशुभपदार्थावबोधे औत्सुक्ययुक्तानां जगज्जनानां प्रदीपस्य तुल्यः । (२) अभिलाषः । (३) कार्यनिष्पत्तिम् । (४) अकब्बरसाहिसिंहद्वारावनिम् ॥११८॥
'समस्ति शेखोऽबलफइ( 2 )जनामा, 'तुरुष्कशास्त्राम्बुधिपारदृश्वा ।
हमांउसूनोरवनीश्वरस्य, दृष्टिस्तृतीयेव परिस्फुरन्ती ॥११९॥
(१) विद्यते । (२) यवनागमसागरपारगामी । (३) अकब्बरसाहेः । ( ४ ) सर्वशास्त्ररहस्यकथयिता न्यायान्यायोपदेष्टा च ॥११९॥
सहस्ररश्मेरिव सोमजन्मा, समेत्य शेखस्य सवेशदेशे । तत्रैयिवांसं वतिनामधीशं, तं स्थानसिंहो वदति स्म तस्मै ॥१२०॥
(१) सूर्यस्य । (२) बुधः । (३) समीपभूमौ । (४) सिंहद्वारे ।(५) समागतम् । (६) सूरिम् । (७) रामाङ्गजः । (८) कथयति स्म । (९) शेखाय ॥१२०॥ 1. द्वीपे पर० हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org