________________
१४६
श्री हीरसुन्दर' महाकाव्यम् (१) गगनमण्डले निर्भरीभूतान्मेघान् । (२) रासकाः । (३) दत्ताः । (४) कौटुम्बिककान्ताभिः । (५) शूराणां सुभटानां रवीणां च - राज्ञां - नृपाणां चन्द्राणां पराभवनोद्भूतायाः । (६) मेघ एवोपज्ञा - आद्यं ज्ञानं यत्र तादृश्या कीर्तेः । मेघयशसो रासका इत्यर्थः ॥१०९॥
तदा 'वराणां द्विजवत्कनीनां, गर्जात्तवेदध्वनिरम्बुवाहः । शाखाकरैाहयति स्म भूमि-रुहां प्रवालाग्रकरान्लँतानाम् ॥११०॥
(१) परिणेतृणाम् । (२) पुरोहित इव । (३) गर्जारव एव गृहीत उच्चरितो वेदपाठस्य ध्वनिफैन । (४) मेघः । (५) शाखारूपैर्हस्तैः । (६) वृक्षाणाम् । (७) पल्लवरूपानग्रहस्तान् । (८) वल्लीनाम् ॥११०॥
'अभैरेनीकैरिव दिग्विभागा-नाक्रामतश्छिन्नतप दस्योः ।
केकारवैः किं क्रियतेऽम्बुदस्य, जयध्वनिश्चंन्द्रकिबन्दिवृन्दैः ॥१११॥
(१) अभ्रकैः । (२) कटकैरिव । (३) आशाप्रदेशान् । (४) व्याप्नुवतः । (५) व्यापादितग्रीष्मद्विषः । (६) मयूराणां वाक् केका । (७) प्रयोज्यते । (८) जयजयारवः । (९) मयूरैरेव मङ्गलपाठकपटलैः ॥१११॥
'विषप्रदोऽस्थास्नु जडाशयश्चे-त्यपाचिकीर्षुः स्वमिवाऽपवादम् । 'तर्दाऽम्बुदस्तं ककुदं मुनीना-मुपासनागोचरतां निनाय ॥११२॥
(१) 'विषं जलक्ष्वेडयो रित्यनेकार्थः । तस्य दाता । (२) चपलाशयः जाड्यवान् । डलयोरैक्याज्जलानामाश्रयः । "आशय आश्रयेऽभिप्रायपनसयोरपि" इत्यनेकार्थः । (३) हर्तुकामः । (४) आत्मनो निन्दाम् । (५) तस्मिन्नवसरे । (६) मेघः । (७) सेवते स्म ॥११२॥
'निजौजसैवाऽमदयन्मनांसि, यो योगिनां यौवनवत्पयोदः ।। "अहो 'व्यनंसीत्स्तनितैः स्तवौघै-रिव स्तुवन्सोऽप्यनगारशक्रम् ॥११३॥
(१) स्वप्रतापेनैव । (२) मेघः । (३) शमवतामपि । (४) आश्चर्ये । (५) विशेषेण नमति स्म । (६) गर्जितैः । (७) स्तोत्रस्तोमैः । (८) मेघोऽपि । (९) सूरीन्द्रम् ॥११३॥
भोगीव योगी स तदा शमश्री-सङ्गी प्रविश्य 'प्रणिधानसौधम् । दिनं तद॑हत्गुणकीर्तनेन, व्यतीत्य सान्ध्यं विधिमन्वतिष्ठत् ॥११४॥
(१) स्त्र्यादिभोगयुक्त इव । (२) मनोवाक्काययोगवान् । (३) सूरिः । (४) शान्तरसलक्ष्म्या संयोगवान् । (५) ध्यानसौधम् । (६) जिनगुणस्तवनेन । (७) अतिक्रम्य । (८) प्रतिक्रमणम् । (९) चकार ॥११४॥
1. सैवोन्मद० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org