________________
त्रयोदशः सर्गः
१४५ (१) स्वायत्तीकृत्य । (२) दैत्यानां दानवानामपि यो वैरी तस्य स्थानं गगनं च । (३) महिमा । (४) किं कथ्यते । (५) जगत्संहर्तुरपि पिता । (६) दशस्वपि दिक्षु प्रसरणशीलाः करा राजादेयांशभागः किरणाश्च यस्य । "करः प्रत्यायशुण्डयोः रश्मौ वर्षोपले पाणौ" इत्यनेकार्थः । प्रत्यायो राजग्राह्यो भाग इति तदवचूरिः । (७) मेघेन । (८) तिरस्कृतः । आच्छादितः । मेघे समुन्नते रविः कस्याऽपि न स्वमास्यं दर्शयति-इत्यधरीकरणम् ॥१०४॥
प्राप्ते प्रियेऽब्देजनि भूजनीयं, बप्पीहरावैः कृतचाटुकेव । प्रोद्भिन्नकन्दैः पुलकाङ्कितेवा -ऽऽरब्धाङ्गहारेव कलापिलास्यैः ॥१०५॥
(१) प्रतापवानपि आगते । (२) भर्तरि । (३) जाता । (४) मेघे । (५) भूमिरेव जनी-जाया । (६) मेघपत्नी । (७) चातकानां प्रिय प्रिय इति कूजितैः । (८) चटुवाक्या प्रियप्रायवचना । (९) प्रकटितकन्दलैः । (१०) रोमाञ्चकलिता । (११) निर्मितताण्डवा । (१२) मयूरनृत्यैः ॥१०५॥
प्रेक्ष्य क्षणं 'कामरसोन्मदिष्णू-र्घनानुषङ्गेन(ण) तरङ्गिताङ्गीः । पुत्रीः स्रवन्ती: “पितरो 'गिरीन्द्राः, प्रस्थापयन्तीव पति पयोधिम् ॥१०६॥
(१) दृष्ट्वा । (२) मुहूर्तम् । (३) अतिशयेन पानीयैस्तरीतुमशक्याः । पक्षस्मरसेनोन्मत्ताः । (४) मेघानां बहूनां जनानां च सङ्गेन-मिलनेन । (५) उपचितवपुषः । (६) पर्वतोत्पन्नत्वात्पुत्रीः । (७) नदीः । (८) पितरस्ताताः । (९) शैलेश्वराः । (१०) प्रेषयन्ति स्म । (११) भर्तारम् । (१२) समुद्रम् ॥१०६॥
स्वयं धरित्रीधरताभिषेको-त्सवे प्रयुक्तान्कँजजन्मनेव । तदोन्नमन्नीरदमुक्तधारा-पयःप्रवाहानवहन्महीध्राः ॥१०७॥
(१) आत्मनैव । (२) गिरित्वस्य राजत्वस्य वा अभिषेकः स्नपनं, तस्योत्सवे । (३) प्रेरितान् । विमुक्तानित्यर्थः । (४) विधिना । (५) तस्मिन्समये । (६) जलभारैर्नम्रीभवद्भिर्मेधैर्मुक्तानां धारापयसां वृष्टिपानीयानां प्रवाहानोघान् । (७) वहन्ते स्म । (८) गिरयः ॥१०७॥
किर्मम्बुमुक्चक्रिर्णमैक्ष्य वात-चमूपतिक्रान्तदिगन्तचक्रम् । तदा मुधाभूतनिजप्रयत्ना, विशश्रर्मुर्जिष्णुनृपाः प्रयाणात् ॥१०८॥
(१) मेघनामानं चक्रवर्तिनम् । (२) दृष्ट्वा । (३) औत्तराहपवननामसेनापतिना आत्मीयायत्तीकृतं स्वामिमेघाभ्रकाज्ञावृतं कृतं दिशां मण्डलं येन । (४) निष्फलीभूतात्मव्यवसायाः । (५) विश्रान्ताः-स्थिताः । (६) जयनशीला राजानः ॥१०८॥
'नभःस्थलीसंवलिताम्बुवाहान्, समीक्ष्य रासा ददिरे प्रमोदात् । कुटुम्बिनीभिः किमु शूरराजा-भिभूतिजायास्तदुपज्ञकीर्तेः ॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org