________________
१४४
श्री हीरसुन्दर' महाकाव्यम् हन्तुं 'तपर्तोरिव तापमुंा , 'तदाउँम्बरेऽम्भोधर उल्ललास । “पुरन्दरः सूरिपुरन्दरस्य, विवन्दिषुः पत्कजमागतः किम् ॥१९॥
(१) ग्रीष्मस्य । (२) तप्तिम् । (३) भूमौ । (४) यदैव, हीरविजयसूरयः समेत्य सामन्तगृहे स्थितास्तस्मिन्नैव दिने । (५) आकाशे । (६) मेघः । (७) उत्तम( लस )ति स्म । (८) पुरन्दरो मेघः शक्रश्च । यदुक्तम्- “एक एव खगो मानी, चिरं जीवतु चातकः । पिपासितो वा म्रियते, याचते वा पुरन्दरम् ॥” इति । (९) नमस्कर्तुकामः । (१०) चरणकमलम् ॥१९॥
'अम्भोभृताभ्रभ्रमदभ्रलेखा, विभूषयन्ति स्म सुपर्व वीथीम् । शङ्के त्रिलोकीजयजागरूक-सूनध्वजोर्वाधवगन्धनागाः ॥१००॥
(१) जलैः पूर्णास्तथा नभसि पर्यटन्त्यः अभ्रकाणां 'आभला' इति प्रसिद्धानां श्रेण्यः । (२) शोभा नयन्ति स्म । (३) गम(ग)नमार्गम् । (४) त्रिजगज्जनविजयव्यवसाये निर्निद्रस्य स्मरभूपस्य गन्धगजेन्द्राः ॥१०॥
'प्रवासिहद्घारिधिमाथमन्था-चलोपमं वारिधरो जगर्ज ।
वीरावतंसालससूनशस्त्रं, प्रोत्साहयन्विश्वजिगीषयेव ॥१०१॥
(१) पान्थजनानां हृदयसमुद्रस्य मथने मन्दराद्रिसदृशम् । (२) गर्जति स्म । (३) सर्वसुभटानां मध्ये शेखरायमाणमथ ग्रीष्मसमये त्वन(?) जगज्जये आलसयुक्तं तादृशं कन्दर्पम् । (४) प्रागल्भ्यम् । (५) जगद्विजयोद्यतं कुर्वन् ।।
'पौष्पेन( ण) चापेन जये त्रिलोक्याः, स्मरेण दुःखीभवताउँथितेन ।
अमोधर्मम्भोजभुवेव चक्रे, तदर्थमाँखण्डलचापचक्रम् ॥१०२॥
(१) कुसुमसम्बन्धिना । (२) धनुषा । (३) कष्टं प्राप्नुवता । ( ४ ) याचितेन । (५) अनिष्फलम् । (६) धात्रा । (७) स्मरार्थम् । (८) इन्द्रधनुर्मण्डलम् ॥१०२॥
'विश्लेषियोषाविरहोष्मशुष्य-त्तनूनिहन्तुं दयितेन रत्याः । कार्शानवं शस्त्रमिव प्रयुक्तं, व्यलीलसद्वयोम्नि तडिद्वितानम् ॥१०३॥
(१) वियोगिनीरङ्गनाः [तासां] वियोगतापेन शोषं प्राप्नुवन्ती( वती)-कृशीभवन्तीत्यर्थः -तनूः-शरीरं यासाम् । (२) स्मरेण । (३) वह्निसम्बन्धि । (४) आयुधम् । (५) मुक्तम् । (६) विकसति स्म । (७) आकाशे । (८) विद्युद्वन्दम् ॥१०३॥
आक्रम्य दैत्यारिपदं स्थितस्या-ऽम्भोदस्य माहात्म्य,दीर्यते किम् ।
कृतान्ततातो दशदिक्प्रसारि-करोऽपि येनाऽधरितो महस्वी ॥१०४॥ 1. मुर्व्यास्तदा० हीमु० 1 2. हीमु. एषः श्लोकः १०९तमक्रमेण दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org