SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १४३ (१) सरस्वतीपुत्रैः । (२) अतिशयेन वर्ण्यमानः । (३) पदे पदे । (४) शाखापुरेऽपि । (५) अत्याग्रहतया । (६) अकब्बरसामन्तस्य जगन्मल्लकच्छवाहकस्य 'जगमालकछवाहु' इति नाम्नो राज्ञो गृहे । (७) तस्थौ ॥१३॥ पचेलिमान्प्राक्तनकर्मरोगान्, 'रसायनं 'दिव्यमिवोऽपनेतुम् । तत्राऽपि शक्रः शमिनां सदस्या-नुद्दिश्यधर्मं कथयांचकार ॥१४॥ (१) परिपाकं प्राप्तान् । (२) पूर्वजन्मसम्बन्धिनः कर्मरूपरोगान् । (३) औषधविशेषम् । (४) देवतासम्बान्धि । (५) नाशयितुम् । (६) सामन्तनृपगृहेऽपि । (७) सभालोकानुद्दिश्य । (८) जिनप्रणीतदयामूलं धर्मम् । (९) कथयति स्म ॥१४॥ 'निपीयमाना श्रवणाञ्जलिभ्यां, 'तद्देशनासारसुधा बुधानाम् । दन्तांशुमिश्रस्मितमूर्तिरन्त-रमान्त्युपेयाय बहिः किमेषा ॥१५॥ (१) पीत्वा । (२) कर्णावेव योजितपाणिभ्याम् । (३) व्याख्यानमेव प्रकृष्टामृतं देशनारूपं वेगवदृष्टेरमृतं वा । (४) दन्तज्योत्स्नाकरम्बितस्मितदेहा । (५) हृदये बहुलामृततया अमान्ती-स्थातुमशक्नुवन्ती( वती) । (६) आगता ॥१५॥ 'निशम्य वाचंमयवासवस्य, तां देशनां 'स्त्रैणसखा मनुष्याः ।। परस्परस्पद्धितया ववर्षु-र्दानैरमानैरिव वारणेन्द्राः ॥१६॥ (१) श्रुत्वा । (२) सूरेः । (३) स्त्रीसहिताः । (४) अन्योन्यं स्पर्द्धाभावेन । (५) वर्षन्ति स्म । (६) दानैः विश्राणनैर्मदवारिभिश्च । (७) अप्रमाणैः । (८) गजेन्द्राः ७६॥ वदान्यविश्राणनंमीक्षमाणो, मालिन्यमालम्बत राजराजः । अन्वर्थनामा प्रथितस्त्रिलोक्यां, कुबेर इत्येष तदादि विद्मः ॥१७॥ (१) तत्समये दातॄणां दानम् । (२) पश्यन् । (३) मलिनताम् । (४) बभाज । (५) धनदः । (६) सत्यार्थाभिधानः । (७) ख्यातः । (८) त्रिभुवने । (९) कुत्सितबेरंशरीरमस्येति । (१०) तं समयमारभ्य ॥९७॥ तोऽर्थिवाञ्छावचनानुरूपं, 'विहापितं सप्तहयोऽव॑साय । कर्रान्सहस्त्रं प्रविसार्य “वाह-मिवाऽष्टमं तत्पुरतो वृणीते ॥१८॥ (१) तस्मिन्नवसरे । (२) याचकानां वाञ्छाया-याञ्चावाक्यस्य तुल्यम् । (३) दानम् । (४) रविः । (५) ज्ञात्वा । (६) सहस्त्रसङ्ख्यान् हस्तान् । (७) विस्तार्य । (८) अश्वम् । (९) तेषां श्राद्धानामग्रे । (१०) याचते ॥९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy