________________
१४२
श्री हीरसुन्दर' महाकाव्यम्
'जगद्विस्मया लक्ष्मीमृगाङ्कसुरभिसुरतरुधन्वन्तरिकौस्तुभोच्चैःश्रवसा सहभूः शशधरकान्तिरैरावतस्तत्प्रसूतिरियमशेषवनान्यलङ्करोति इति । यथा ऐरावणस्य प्रसूतिस्तथोच्चैःश्रवसोऽपि प्रसूतिरिति । (७) पवित्रीकर्त्तुम् । (८) आकारयन्तः ॥८८॥
'उत्कण्ठुलास्तंन्दुललाजमुक्ता- पङ्क्त्या 'प्रमोदात्पथि 'पौरकन्या: । 'अवाकिरंस्तं' 'पृषतैः पयोधि - प्रवृद्धवेला इव शर्वरीशम् ॥८९॥
( १ ) उत्कण्ठायुक्ताः । ( २ ) चोक्षाः कलमा भ्रष्टा यवा मौक्तिकानां राज्या । ( ३ ) हर्षात् । ( ४ ) मार्गे । ( ५ ) नागरिककुमारिकाः । ( ६ ) वर्द्धापयन्ति स्म । ( ७ ) सूरिम् । ( ८ ) जलबिन्दुभिः । ( ९ ) समुद्रस्य चन्द्रोदयदर्शनाद्वृद्धि प्राप्ताऽम्बुमाला । "वेला स्याद्वृष्टिरम्भस' इति । (१०) चन्द्रम्
॥८९॥
विंशां दृश: प्रीणति शक्रकेता-विव 'क्षणेऽस्मिन्बँहलीभविष्णौ । 'निशाम्यता वर्त्मनि पौरवृद्धा - विश्वस्तकान्ताशुभशंसितानि ॥९०॥ 'एकत्र जाग्रत्रिजगद्विभूति - दिदृक्षयाऽत्रोपगता प्रभेव । शनैः शनैः 'सञ्चरताऽथ तेन, फतेपुरस्योपपुरं प्रपेदे ॥९१॥ युग्मम् ॥ इति सङ्घसंमुखागमनवर्णनम् ॥
( १ ) जनानाम् । ( २ ) नयनानि । ( ३ ) तर्पयत्याह्लादयति । ( ४ ) इन्द्रध्वजे । (५) इन्द्रमहोत्सवे । ( ६ ) महोत्सवे । (७) बहुतरे जायमाने । (८) आकर्णयता । ( ९ ) मार्गे । (१०) नागरिकानां (णां ) मध्ये ये मुख्यास्तासां सुवासिनीनां प्रियाणामाशीर्वचनानि ॥ ९० ॥
( १ ) एकस्मिन्स्थाने । ( २ ) स्फुरन्त्यास्त्रैलोक्यलक्ष्म्या द्रष्टुमिच्छया । ( ३ ) फतेपुरपार्श्वे । (४) आगता । (५) अलकापुरी । “पुरी प्रभा, अलका वस्वोकसारा" इति हैम्याम् । (६) प्रचलता । (७) शाखापुरम् ॥ ९१ ॥ युग्मम् ॥
स 'श्रीकरीं गन्तुमपीँहमानः, शाखापुरं भूषयति स्म सूरिः ।
६
" आश्लेषितुं "केवलपद्मवासां, श्रेणीमिवाऽऽत्मा ' क्षपकाभिधानाम् ॥९२॥
(१) साहिनाऽलङ्कृत्तां श्रीकरीं नाम नगरीम् । (२) यातुम् । (३) वाञ्छन्नपि । ( ४ ) तदुपपुरम् । ( ५ ) पवित्रयति स्म । ( ६ ) आलिङ्गितुम् । (७) केवलज्ञानश्रियम् । (८) जीवः । (९) क्षपकश्रेणीमिव ॥ ९२ ॥
विधातृपुत्रीतनयैरिवाऽयं, 'तोस्तूयमानोऽनुपदं कवीन्द्रैः ।
"तत्राऽपि 'निर्बन्धवशाद्वशीन्द्रः, सामन्तभूभृद्भवने न्यवात्सीत् ॥९३॥
1. ० जगद्विस्मया स्मरजननी लक्ष्मीमृगाङ्कसुरतरु० हीमु० । 2. प्रवृद्धपयोधिवेला हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org