SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४० श्री हीरसुन्दर' महाकाव्यम् (१) सङ्घस्य गजगणाश्वसमूहरथैः ऊर्ध्वं क्षिप्ताभिः । (२) आच्छादिताः समस्ता दिशः । (३) प्रक्षिप्तैः । ( ४ ) असाधारणशृङ्गारादिरसेन । (५) वासयोगैः । 'अबीर' इति लोकप्रसिद्धैः ॥७७॥ 'चलद्वलाकं कलधौतकुम्भैः, कल्याणकुम्भैः सतडिद्विलासम् । 'रजोभिरैभ्राङ्कमुंदीतगर्ज, “तूरस्वरैरंभ्रमिव "बुवे तम् ॥७८॥ (१) चलन्त्य उड्डीयमाना बकाङ्गना यत्र । (२) रूप्यकलशैः । (३) स्वर्णघटैः । (४) विशुद्धविलसितेन कलितम् । (५) धूलीभिः । (६) अभ्रकाणि 'आभा' इति प्रसिद्धान्युत्सङ्गे यस्य । (७) प्रकटीभवद्गर्जारवम् । (८) वाद्यरवैः । (९) मेघम् । (१०) कथयामि ॥७८॥ 'उद्धर्षनिध्यानधृतावधान-सौधाग्रजाग्रत्पुरसुन्दरीणाम् । वीथी 'दिवो वक्त्रसहस्रपत्रैः, सहस्रचन्द्रेव तदा 'दिदीपे ॥७९॥ (१) महोत्सवविलोकने दत्तचेतोभिः गेहोपरिस्थितानां नगरनारीणां-नागरीणाम् । (२) मार्गः । (३) आकाशस्य । (४) वदनकमलैः । (५) शुशुभे ॥७९॥ 'असर्जि सृष्टिविधिना नवा किं, गर्भाद्भवो वा किममी "निरीयुः । 'समं निपेतुः किमुताऽम्बराद्वा, विज्ञैर्जनान्वीक्ष्य तदेत्यंतर्कि ॥८०॥ (१) कृता । (२) रचना । (३) कुक्षेः । (४) भूमेः । (५) निर्गताः । (६) समकालम् । (७) पतिताः । (८) पण्डितैः । (९) तस्मिन्सम्मुखावगमनावसरे ।(१०) विचारितम् ॥८०॥ 'नभोऽम्बुपानाब्द इवाउँनधीता-र्थनान्सँजन्नैर्थिजनान्यरेषु । स्वगौरवोर्वीवहनप्रणीत-संशीतिशेषः स चचाल सङ्घः ॥८१॥ (१) बप्पीहान् । (२) मेघ इव । (३) न पठितयाचनान् । (४) कुर्वन् । (५) याचकलोकान् । (६) परेषु विषये । अयाञ्च्यान् कृतानित्यर्थः । (७) आत्मनो भारेण भूमेरुद्धरणे कृतः संशयो येन तादृग्नागराजो यत्र ॥८१॥ 'धात्रीपवित्रीकृतये 'प्रणीत-जनि पुनः किं वसुभूतिसूनुम् । सङ्घो मुनीनां मघवानमेनं, स्वचक्षुषोर्गोचरयांचकार ॥८२॥ (१) पृथिवीपावनीकरणाय । (२) कृतावतारम् । (३) गौतमम् । (४) ददर्श ॥८२॥ प्रक्षाल्य दुग्धाम्बुधिना पयोभिः, कृतं 'निरङ्कं तनुजन्ममोहात् । पुरीदिदृक्षोपगतं मृगाङ्क-मिवैनमन्विष्य तुतोष सङ्घः ॥८३॥ 1. •पुत्रम् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy