________________
त्रयोदशः सर्गः
१३९ 'वनप्रदेशा इव केऽप्येलाबू-व्यालम्बिवंशाः सविरावितालाः । केचिन्मुकुन्दा इव कम्बुहस्ता, वीणाकराः केऽपि गणा इवाऽऽसन् ॥७२॥
(१) विपिनविभागाः । ( २ ) तुम्बकैस्तुम्बिणीभिर्वल्लीभिर्विशेषेणाऽऽलम्बनशीला वेणवो येषां येषु च । (३) विशेषेण शब्दायन्ते इत्येवंशीलाश्चञ्चपुटास्तालगुमाश्च येषां येषु च । (४) शङ्खाः पाञ्चजन्यश्च पाणौ येषाम् । (५) वीणा हस्तेषु येषाम् ॥७२॥
'अपूरयन्केऽपि तदा 'त्रिरेखान्, हंसायमानान्मुखपङ्कजाङ्के। *विघ्नाधिपं किं विधतावधानं, जिघांसया विघ्नततेः 'सृजन्तः ॥७३॥
(१) वादयन्ति स्म । (२) शङ्खान् । (३) वक्त्रकमलक्रोडे । (४) गणेशम् । (५) सावधानम् । (६) हन्तुमिच्छया । (७) प्रत्यूहव्यूहस्य । (८) कुर्वन्तः ॥७३॥
गीति जगुः केचन रासकांश्च, सूरेर्यशः केऽपि जयारवांश्च । कैश्चिन्मुदाऽनति तमोऽप्येकर्ति, प्रावर्ति पुण्ये कुपथान्य॑वति ॥७४॥
(१) गायन्ति स्म । (२) हर्षेण । (३) नृत्यं प्रारब्धम् । ( ४ ) पापम् । (५) छेदितम् । (६) प्रवर्तितम् । (७) कुमार्गात् । (८) निवृत्तम् ॥७४॥
खुरैरेखानि प्रचलत्तुरङ्गैर्धात्री 'खनित्रैः खनकैरिवाँऽत्र । गलन्मदाम्भोभिरिभैरिवाऽम्भो-धरै धरा पङ्किलयांबभूवे ॥७५॥
(१) चरणनखैः । अश्वानां नखाः खुरः प्रोच्यन्ते । (२) क्षोदिता । (३) प्रसर्पद्वाजिभिः । (४) भूमिः । (५) खननोपकरणैः । (६) पूर्त्तकृद्भिः । 'उड' इति प्रसिद्धैः । (७) महोत्सवे । (८) निःसरद्दानवारिभिः । (९) गजैः । (१०) मेघैः । (११) भूमिः । (१२) कर्दमयुक्ता कृता ॥७॥
सङ्ख्यातिप्रेतद्गजवाजिपत्ति-शताङ्गभारोद्वहनाप्रभूष्णुम् । धात्रा कृता धारयितुं धरित्री, स्तम्भा इवांऽहीन्द्रफणासहस्त्रम् ॥७६॥
(१) गणनामतिक्रान्तानां सङ्घस्य गजाश्वपादातिरथानां भारोद्वहने-वीवधोद्धरणे ऽशक्तामसमाम् (२) धारणाय । (३) धराम् । (४) शेषनागफणानां सहस्रम् । तद्भारं धर्तुमशक्नुवती भूमीं धारयितुं सहस्रं स्तम्भाः कृता विधिनेत्यर्थः ॥७६॥
तद्हास्तिकाश्वीयरथोद्धुताभि-धूलीभिरस्तारिषताऽखिलाशाः ।
'क्रीडां सृजद्भिर्हरितां महेन्द्रैः, क्षिप्तैरिवाऽद्वैतरसेन चूर्णैः ॥७७॥ 1. क्षिप्तैर्दिगीशैरिव दिग्वधूभिः क्रीडद्भिरद्वैत० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org