________________
१३८
श्री हीरसुन्दर' महाकाव्यम् मृगीदृशः काश्चन शातकौम्भान्, 'कुम्भान् शिरोभिर्बिभरांबभूवुः । 'प्राक्स्वां गृहीतां सुषमा स्तनेभ्यः, पश्चोज्जिघृक्षुर्नुपजग्मुषः किम् ॥६७॥
(१) स्त्रियः । (२) हेममयान् । (३) कलशान् । (४) दधुः । (५) पूर्वम् । (६) स्वकीयाम् - कुम्भसम्बन्धिनीम् । (७) सातिशायिशोभाम् । (८) कुचेभ्यः सकाशात् । (९) ग्रहीतुमिच्छून् । (१०) आगतान् ॥६७॥
रोप्या 'निपा नीलकजापिधाना, मूर्धस्वेधीयन्त तदा पराभिः । महामहन्तं वचनाऽप्यदृष्टं, द्रष्टुं मृगाङ्काः किमुपेयिवांसः ॥६८॥
(१) रूप्यघटिताः । (२) कुम्भाः । (३) नीलोत्पलपिधानाः । वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' अवगाहः-वगाहः, अपिधानं-पिधानमिति प्रक्रियायाम् । तथा- "व्रजति कुमुदे मोदं दृष्ट्वा दृशोरपिधायके" इति नैषधे । (४) शिरस्तु । (५) अधार्यन्त । (६) अन्याभिः । (७) कुत्रापि स्थाने । (८) पूर्वमदृष्टम् । (९) शशिनः । “राकामृगाङ्काः संभूय विभान्ति शरणागता" इति पाण्डवचरित्रे । (१०) आगताः ॥६८॥
पुरश्चरन्तः पथि हर्षहेषा-मिषात्तदा वल्गितवेल्लिताङ्गाः । गायन्ति गन्धर्वगणा गणेन्द्र-गुणान्वितन्वन्त इवोऽङ्गहारम् ॥६९॥
(१) हर्षयुक्तानां हेषारवानां( णां) कपटात् । (२) वल्गितेन गतिविशेषेण चपलीकृतकायाः। (३) गन्धर्वगणा-अश्वव्रजा गायनौघाश्च । (४) कुर्वन्तः । (५) अङ्गविक्षेपंनृत्याङ्गविशेषम् ॥६९॥
'व्यसीसृपत् श्रोत्रसुधायमान-गाना तदा वैणिकपङ्क्तिरग्रे । 'किमागताउँतीन्द्रपुरी पुरी तां रसाद् दिदृक्षुस्तुरगास्यसंसत् ॥७०॥
(१) प्रचलति स्म । (२) कर्णयोरमृतवदाचरन्ती गीतिर्यस्याः ।(३) अतिक्रान्ता स्वलक्ष्म्या विजिताऽमरावती यया । (४) आश्चर्यरसात् । (५) द्रष्टुमिच्छुः । (६) किन्नरसभा । "उड्डपरिषदः किं नार्हन्ती निशः किमनौचिती"ति नैषधे ।
'निःस्वानवृन्दे प्रददुः प्रहारान्, केचिद्विपक्षव्रजवक्षसीव ।
अताडयन्केऽपि पुनर्मुदङ्गा-नमी सरन्ध्रा 'द्विमुखा इतीव ॥७१॥
(१) निःस्वानान् वादयन्ति स्मेत्यर्थः । (२) वैरिगणहृदये इव । (३) कुट्टयन्ति स्म । (४) सरन्ध्रा रन्ध्र-छिद्रं दोषश्च । (५) कर्णेजपवद्वे मुखे येषाम् ॥७१॥
1. किमागतामिन्द्र० हीमु० । एषः पाठोऽशुद्धो भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org