________________
त्रयोदशः सर्गः
१३७ (१) आभरणरत्नैः प्रकाशितसमस्ताशावदनाभिः । (२) चपलतया क्रीडन्तीभिः सुकुलोत्पन्नकुमारिकाभिः । (३) आकाशे निरालम्बतया क्रीडास्थानकाभावतया निर्विर्वे )दात्विषादात् । ( ४ ) भूमण्डलम् । (५) आगताभिः । (६) बालिकाभिः । (७) विद्युद्भिः ॥६१॥
'सगर्भभावं विधना दधानाः, सारस्वता मर्त्यनिषेव्यमानाः( णाः)। तदा स्म रङ्गन्ति पुरस्तुरङ्गाः, मायामिवोच्चैःश्रवसोऽनुबिम्बाः ॥६२॥
(१) भ्रातृतां तुल्यताम् । (२) वर्णैः कश्मीरदेशोद्भवास्तथा स( सा )मस्त्येन नरैः सम्यग्लक्षणयुक्ततयोपास्यमानाः । पक्षे-सरस्वति-समुद्रे भवास्तथा देवैः सेव्यमानाः । (३) भूमौ । (४) इन्द्राश्वस्य । (५) प्रतिमाः ॥६२॥
यस्मिन्जयन्त्यः 'कलकण्ठकण्ठान, जगुः समुत्कण्ठितकम्बुकण्ठ्यः । 'सिद्धाङ्गनाः स्वर्गिगिरेंर्धरायां, गुणानगणेन्दोरिव गातुमेताः ॥६३॥
(१) कोकिलानां स्वरान् । “कण्ठो ध्वनौ सन्निधाने ग्रीवायां मदनद्रुमे" इत्यनेकार्थः । (२) गायन्ति स्म । (३) उत्कण्ठायुक्ताङ्गनाः । (४) सिद्धा देवविशेषास्तेषां प्रियाः । (५) मेरुः सुरावासः, सर्वेषां देवानां साधारणावासत्वात्सिद्धानामप्यावासः । तस्मात्तत आगमनमुक्तम् । (६) भूमौ । (७) सूरेः । (८) आगताः ॥६३॥
द्विपैर्व्यतायन्त पटिष्ठघण्टा-टङ्कारवाव्याहतबृंहितानि । 'महीतलोद्वासितदुर्नयस्य, प्रस्थानढक्का क्वणितानि मन्ये ॥६४॥
(१) विस्तारितानि । (२) गजैः । (३) अतिशयेन पटुभिर्घण्टाटङ्कारवैर्न निढतानि बृंहितानि-गर्जाः । (४) भूमण्डलान्निष्कासितस्याऽन्यायस्य । (५) प्रयाणभेर्या ध्वनितानीव ॥६४॥
'भाङ्कारिभेरीनिनदन्नफेरी- दैदिगन्तानपि पूरयन्तीः । कर्णातिथीकृत्य कुपक्षलक्ष-निर्घोषिवर्षाशरभीबभूवे ॥६५॥
(१) भांकुर्वन्तीत्येवंशीला भेयस्तथा शब्दामयाना नफेर्यस्ताः । (२) स्वध्वनिभिः । (३) दिग्विभागानपि । (४) निर्भरं भरन्तीः । (५) श्रुत्वा । (६) मिथ्यादृग्भिः । (७) गर्जन्त्या वर्षायाः प्रावृषः वर्षाकालस्याऽष्टापदीभावं भेजे । यथा वर्षागर्जितं श्रुत्वाऽष्टापदो गर्वादुत्पत्योत्पत्य म्रियते तथा प्रभुप्रवेशमहे भेरीनफेरीध्वनीनाकर्ण्य मृतप्राया इवाऽऽसन् ॥६५॥
'सन्ध्याद्रुहः केऽप्यवहन्विहायो-लिहः शयाम्भोरुहि वैजयन्तीः । प्रकाशयन्तः प्रति मुक्तिकान्तां, मूर्त्तानुरागानिव रन्तुकामाः ॥६६॥
(१) सन्ध्यारागाय द्रुह्यन्तीति तत्पद्धिनीः । (२) आकाशं यावदुच्चस्तराः । (३) पाणिपञ । (४) ध्वजान् । (५) प्रकटीकुर्वन्तः । (६) सिद्धिवर्धू प्रति । (७) तनूमतो रागानिव ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org