SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (१) रथवाहिभिरश्वैः । ( २ ) सहितान् । (३) रत्नस्वर्णरचनाजुषः । (४) सारथिभिः । (५) युक्तोत्सङ्गान् । (६) देवस्यन्दनात् । (७) देवाः । (८) शोभां नयन्ति स्म । (९) रथान ॥५५॥ 'स्थलप्रफुल्लन्नवहेमपद्म-लेखाविभूषामिव लम्भयन्तः । क्रमद्वयीचङ्क्रमणक्रमेणा-ऽलंचक्रिरे केचन वाद्धिकाञ्चीम् ॥५६॥ (१) जलरहितस्थाने विकसन्तीनां नूतनकनककमलश्रेणीनां शोभाम् । (२) पादद्वन्द्वसञ्चरणपरिपाट्या । (३) भूषयन्ति स्म । (४) भूमीम् । (५) जनाः ॥५६॥ दधुस्तदा जन्मजुषो 'विभूषां, भूषाविशेषान्वपुषा वहन्तः । श्रिया जितेनाऽमरसद्मनेवो-पदीकृताः स्वीयसुरा नगर्याः ॥५७॥ (१) विशिष्टाभरणानि । (२) शोभातिशयान् । (३) शरीरेण । (४) स्वर्गेण । (५) ढौकित:( ताः) । (६) आत्मीया देवाः । (७) फतेपुरस्य ॥५७॥ आरुह्य 'बाहं पितुरिन्द्रसूनुः, स्निग्धैर्निखेलन्किमनेकमूर्तिः । 'पर्याणितप्रौढहयाधिरूढाः, शृङ्गारिता भान्ति तदा कुमाराः ॥५८॥ (१) अश्वम् । उच्चैःश्रवोनामानम् । (२) इन्द्रस्य । (३) जयन्तः । (४) सहचरैर्मित्रैः। (५) क्रीडन् । (६) पर्याणं जातमेष्विति पर्याणिताः-सज्जीकृताः प्रगल्भा पुरुषप्रमाणा वाजिनस्तेष्वाश्रिताः । “जवेऽपि मानेऽपि च पौरुषाधिक"मिति नैषधे । (७) विविधाभरणैरलङ्कत्ताः ॥५८॥ तदा कुमारीभिरभासि 'भास्व-न्मुक्तामणीस्वर्णविभूषणाभिः । इवाऽनुजाभिः सुरराजसूनो, "रिरंसयोर्वीतलशालिनीभिः ॥५९॥ (१) शुशुभे । (२) दीप्यमानानां मुक्ताफलानां रत्नानां सुवर्णानामाभरणानि यासाम् । (३) लघुभगिनीभिः इन्द्रपुत्रस्या । जयन्तीभिरित्यर्थः । (४) क्रीडितुमिच्छया । (५) भूवलयसेवनशीलाभिः ॥५९॥ परम्पराभिः पुरसुन्दरीणां, राजी जनानाम गम्यते स्म । महे मुनीन्दोः शरदीव राज-मरालमाला कलहंसिकाभिः ॥६०॥ (१) श्रेणिभिः । (२) नगराङ्गनानाम् । (३) अनुगता । (४) शरत्काले । (५) राजहंसपतिः । “महानन्दसरोराज-मरालायाऽर्हते नम" इति सकलार्हत्प्रतिष्ठाने ॥६०॥ भूषामणिद्योतितदिङ्मुखाभि-चोपल्यचञ्चत्कुलबालिकाभिः । बभेडेभ्रखेदाढ़वमीयुषीभि-रिवाऽर्भकाभिर्जलबालिकाभिः ॥६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy