SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः गिरं 'धरेन्दोर्हृदये 'निधाय, 'नालीकनेत्रामिव नैंगमास्ते । वाचस्पतेर्गोचरयन्ति वाचो, न यां कदाचिन्मुंदमादधुस्ताम् ॥५०॥ (१) साहेः । (२) स्थापयित्वा । (३) पद्माक्षीमिव । ( ४ ) वणिजः । (५.) बृहस्पतेः । (६) विषयीकुर्वन्ति । (७) हर्षम् ॥५०॥ 'निवृत्य पृथ्वीपुर( रु )हूतपाात्, सङ्घस्य 'तेऽथाऽकथयन् दन्तम् । सोऽपि प्रसर्पत्प्रमदामृताब्धौ, मराललीलायितमाततान ॥५१॥ (१) पश्चादागत्य । (२) साहिसमीपात् । (३) वार्ताम् । (४) प्रवर्द्धमानहर्षसुधासमुद्रे । (५) हंसविलसितम् ॥५१॥ सङ्घः प्रतस्थेऽभिमुखं मुनीन्दो-रुत्कण्ठतामाकलयन्नकुण्ठाम् । 'कूलङ्कषाकान्त इव प्रवृद्ध-कल्लोलशाली रजनीश्वरस्य ॥५२॥ अथ सङ्घसम्मुखागमनवर्णनम् (१) उत्सुकताम् । (२) अतिशायिनीम् । (३) समुद्र इव । (४) वृद्धि प्राप्तैस्तरङ्गैः शोभते इत्येवंशीलः । (५) चन्द्रस्य ॥५२॥ सुवर्णकाया तिवातवेगान्, 'वीडाविशेषैः क्षितिम॑स्पृशन्तः । . कृष्णा इवाऽध्यारुरुहुर्वहन्तः, श्रियं हरीन्केचन चक्रहस्ताः ॥५३॥ (१) शोभनवर्णा रक्तनीलश्वेतादिकान्तयः शरीराणि येषाम् । गरुडस्य स्वर्णमयः कायः । (२) पवनादि(द)तिशायिवेगा:( गान्) । (३) धारागतिविशेषैः । (४) शीघ्रगामितया भुवनं सङ्घट्टयन्तः । (५) नारायणाः । (६) शोभां लक्ष्मी च । (७) गरुडान् । (८) आकृत्या चक्रं सुदर्शनं च पाणी येषाम् ॥५३॥ बभुर्विभूषांशुतडिद्वितानान्, गर्जोर्जितस्पन्दिमदाम्बुधारान् । शक्रेण 'कायाः कुतुकात्कृताः किं, यानाम्बुदान्केचिदिभान्भजन्ते ॥५४॥ (१) विशिष्टा भूषा आभरणानि तेषां किरणा एव विद्युद्वन्दानि येषु । “विनैव भूषामवधिः श्रियामिय"मिति नैषधे । भूषा आभरणानीति तद्वत्तिः । (२) गर्जाभिर्गारवैः प्रबलाः तथा पतनशीला दानवारिधारा येषु । (३) शरीराणि । (४) वाहने मेघान् । “सङ्क्रन्दनाखण्डलमेघवाहना" इति हैम्याम् । (५) गजान् ॥५४॥ रथ्यैः सनाथान्मणिशातकुम्भ-सन्दर्भगर्भान् रथिकैः श्रिताङ्कान् । मरुद्रथान्स्वःसदना इवाऽत्र, व्यंभूषयत्केऽपि पुनः शताङ्गान् ॥५५॥ १. चाऽथाकथ० हीमु० । Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy