SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ श्री हीरसुन्दर' महाकाव्यम् 'मधोः 'पिकीकान्त इवैष युष्म-त्समागमं काङ्क्षति भूमिकान्तः । श्रीवाचकेनेत्युदितो व्रतीन्दुः', फतेपुरोपान्तभुवं बभाज ॥४४॥ (१) वसन्ते( तस्य) । (२) कोकिलः । (३) युष्माकं आगमनम् । (४) साहिः । (५) विज्ञप्तः । (६) फतेपुरस्य समीपस्थानम् ॥४४॥ 'अश्रावि सङ्घन ततः प्रवृत्ति-र्जनाननात्ारिसमागमस्य । द्वीपान्तरोपागतपण्यपूर्ण-पोतव्रजस्य व्यवहारिणेव ॥४५॥ (१) श्रुता । (२) वार्ता । (३) वर्धापनिकादायकानां मुखात् । (४) प्रभुपादावधारणस्य । (५) अन्यद्वीपादागतस्य क्रियाणकै तस्य यानपात्रगणस्य । (६) व्यापारिणा ॥४५॥ उपायनीकृत्य नृपरिवैत-न्महीमघोनः कनकांशुकादि । तदागमोऽभाष्यत थानसिंहा-मीपालमानूमुर्खसङ्घमुख्यैः ॥४६॥ (१) ढौकयित्वा । (२) साहेः । (३) स्वर्णवस्त्रादि । ( ४ ) सूरिसमागमनम् । (५) उच्यते स्म । (६) प्रकृष्टैः श्रावकैः ॥४६॥ आज्ञां तोऽऽसाद्य 'समग्रभूमी-पालाङ्कपङ्केहभृङ्गिताहेः । कुर्मो जिनस्येव वयं प्रवेश-महं मुनीन्दोर्महनीयकीर्तेः ॥४७॥ (१) आदेशम् । (२) प्राप्य । (३) समस्तराजोत्सङ्गरूपकमले भ्रमरवदाचरितौ चरणौ यस्य । (४) सूरेः । (५) त्रिजगज्जनैः प्रशस्या कीर्तिर्यस्य ॥४७॥ प्रभोंनिपीयोपगमं प्रमोद-प्रोत्फुल्लवकराम्बुरुहो महीन्द्रः । सुधां स्वगाम्भीर्यजिताब्धिनेवों-पदीकृतामुच्चरति स्म वाचम् ॥४८॥ (१) सूरेः । (२) सादरं श्रुत्वा । (३) आगमनम् । (४) हर्षेण विस्मरं मुखकमलं यस्य । (५) निजगम्भीरिम्ना( म्णा)ऽभिभूतेन सागरेण । (६) ढौकिताम् ॥४८॥ यस्मिन्महाश्चर्यरसे 'निमग्नी-भूता त्रिलोकीजनता यथा स्यात् । 'विनिर्मिमीध्वं तमिह प्रवेश-महं महीयांसमंहो मुनीन्दोः ॥४९॥ (१) प्रवेशोत्सवे । (२) अतिविस्मयरसे । (३) निलीनीभूतेव । (४) त्रैलोक्यलोकावली। इयं गर्भोपमा । (५) कुरुध्वम् । (६) सर्वविख्यातम् । (७) अतिशायिनम् । (८) जनाः ! ॥४९॥ 1. ०न्द्रः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy