SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १३३ (१) कुत्र पुरे । (२) कियद्दूरप्रदेशे । ( ३ ) कस्मिन्काले । ( ४ ) आगन्तुमिच्छुः । (५) नृपः । ( ६ ) तस्मिन्प्रस्तावे । (७) समाचारम् । (८) वार्त्ताम् । (९ ) सूरे: । (१०) पृच्छति म । ( ११ ) मित्रस्येव । ( १२ ) तुष्टिं प्राप्नुवन् ॥३८॥ प्रभुः 'शुभंयुर्वरिवत्ति नीति- शालीव 'साङ्गानगरं पुनानः । "वितिष्ठिते वर्त्मनि ‘नाऽतिदूरे, विभूषितो वर्ष्मणि "वार्द्धकेन ॥३९॥ 'शनै: शनैस्तंत्पथि 'सञ्चरिष्णुः, स्वल्पैर्दिनैरेव विभो ! 'समेता । 'स'वाचकेन्द्रं 'विससर्ज "तेनें - युक्तः प्रभोरागमैंमीहमानः ॥४०॥ युग्मम् ॥ ( १ ) कल्याणवान् । (२) प्रवर्त्तते । ( ३ ) न्यायनिष्ण इव । ( ४ ) सांगानेरम् । (५) पवित्रीकुर्वाणोऽस्ति । (६) तिष्ठति । (७) मार्गे । ( ८ ) समीपप्राये । ( ९ ) अलङ्कृतः । (१०) शरीरे । ( ११ ) वृद्धावस्थया ॥३९॥ ( १ ) मन्दं मन्दम् । (२) तत्तस्माद्वृद्धत्वात् । (३) मार्गे । ( ४ ) सञ्चरणशीलः । (५) स्तोकैरेव दिवसैः । (६) समेष्यति । (७) साहि: । (८) विमलहर्षोपाध्यायम् । (९) पश्चात्प्रेषयति स्म । (१०) वाचकेन । ( ११ ) इत्यमुना प्रकारेण । ( १२ ) प्रोक्तः । (१३) सूरेरागमनम् । (१४ ) काङ्क्षन् ॥४०॥ 'तां 'वाचकेन्द्रदर्धिगम्य वार्त्ता, श्राद्धैर्निनंसोत्सुकितैः प्रमोदात् । "अभ्येत्य भव्यैरिव तुङ्गिकायाः, पुरो जिनेन्द्रः स ततः प्रणेमे ॥ ४१ ॥ ७ ( १ ) उपाध्यायात् । (२) ज्ञात्वा । (३) उदन्तम् । (४) सूरेर्नन्तुमिच्छया उत्कण्ठितैः । (५) अभिमुखमागत्य । (६) यथा तुङ्गिकानगरी श्राद्धैः । (७) सूरिः । ( ८ ) प्रणतः ॥४१॥ दत्तां 'सुरेभ्यो 'हरिणोऽम्बुनाथ- माथेऽधिगत्येव सुधां 'सुरेन्द्रः । 'प्रीतेभ्य एभ्यः प्रभुरयवेत्यों - दन्तं तमन्तर्मुर्देर्मादधार ॥४२॥ ( १ ) देवेभ्यः । ( २ ) नारायणेन । ( ३ ) समुद्रमथनावसरे । ( ४ ) लब्ध्वा । ( ५ ) शक्रः । (६) प्रीतिं प्राप्तेभ्यः । ( ७ ) प्रथमागत श्रावकेभ्यः । ( ८ ) ज्ञात्वा । ( ९ ) वार्ताम् । (१०) मनसि । (११) प्रीतिम् । ( १२ ) धत्ते स्म ॥ ४२ ॥ 'पवित्रयंस्तीर्थं इवोऽध्वजन्तून्, पुरे भिरामादिमवादनाम्नि । यावत्समेतः प्रभुंरेत्य तावत्, "श्रीवाचकेन्द्रेण नतः स तेन ॥४३॥ (१) निष्पापान् कुर्वन् । (२) मार्गजनान् । (३) अभिरामावादनाम्नि पुरे । ( ४ ) आगतः । (५) आगत्य । (६) विमलहर्षोपाध्यायेन । ( ७ ) वन्दितः ॥४३॥ 1. हीमु० एतच्छ्लोकोऽ पूर्णोऽस्ति । 2. तद्वाच० हीमु० । 3. ०गत्य हीमु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy