________________
१३०
श्री हीरसुन्दर' महाकाव्यम् (१) मोक्षस्य । (२) सातम् । (३) ऋषभदेवम् । (४) प्रकर्षेणाऽनुकूलीकृत्य । (५) अमृतस्य बन्धूभवन्तीनामुक्तीनां-वाक्प्रपञ्चानां युक्तयो-रचनाचातुर्यं यस्याम् । (६) स्तौति स्म ॥२२॥
संप्राप्तयोर्निर्जरनागधाम्नो-रिवाऽन्तिकेऽर्हत्क्रमसेवनाय । 'शिरोगृह क्ष्मागृहयोः प्रणम्य, जिनान्मुनीन्दुः स ततः प्रतस्थे ॥२३॥
(१) आगतयोः । (२) स्वर्गपातालयोः ।(३) समीपे । (४) भगवत्पादपद्मपरिचरणाय । (५) ऊर्ध्वगेहाधोगृहयोः । (६) सूरिः । (७) राणपुरात् । (८) अग्रे चचाल ॥२३॥
'आउआपुरेशो जगडूः किमन्य-स्ताह्लाभिधः साधुरैनन्यदानैः ।
पीरोजिकाभिः स्वपुरप्रवेशे, प्रभावनाद्युत्सवमस्य चक्रे ॥२४॥
(१) आउआनाम्नः पुरस्य स्वामी । (२) भद्रेश्वरपुरवास्तव्यः परः जगडूनामा । (३) असाधारणविश्राणनैः । (४) पीरोजिकानामनाणकैः । (५) आत्मनः पुरमध्ये प्रवेशसमये । (६) धर्मस्थाने प्रतिजनं यत्किञ्चित्पूगाद्यर्प्यते सा प्रभावना, तत्प्रमुखमुत्सवम् । (७) कृतवान् । प्रभावनायां प्रतिजनं मरुदेशप्रसिद्धां पीरोजिकां ददावित्यर्थः ॥२४॥
'प्राप्योऽनुशास्ति 'प्रभुतोऽशुलक्ष्मी, पर्वात्यये 'चन्द्रमसेव भानोः । "कल्याणचञ्चद्विजयाभिधानो-पाध्यायशक्रेण ततो न्येवति ॥२५॥
(१) लब्ध्वा । (२) शिक्षाम् ।(३) सूरीन्द्रात् । (४) किरणश्रियम् । (५) अमावास्याव्यपगमे । (६) विधुना । (७) सूर्यात् । (८) कल्याणविजयोपाध्यायेन्द्रेण । (९) निवृत्यते स्म ॥२५॥
'ग्रामक्षमाभृद्वनदेशदुर्गा-नुल्लङ्घय 'दुर्लङ्घयभुवो बभाज । स मेदिनीनाम पुरं यतीनां, पतिर्यथा तक्षशिलां वृषाङ्कः ॥२६॥
(१) लघुपुराणि शैला: काननानि जनपदाः कोट्टाः, तान् । (२) अतिक्रम्य । (३) दुःखेन लवयितुं शक्या भूमयो येषाम् । (४) मेडतानाम नगरम् । (५) बाहुबलिपुरम् । (६) ऋषभदेवः ॥२६॥
'मरुस्थलीविक्रमनागपूर्व-पुरीयभव्यैर्भगवानिहैत्य ।
वैताढ्यशैलोत्तरदक्षिणाख्य-श्रेणीनभोगैरिव स प्रणेमे ॥२७॥
(१) मरुस्थल्यां यद्विक्रमनाम पुरं तथा नागपुरम्, तदीयैः श्राद्धैः । ( २ ) सूरिः । (३) मेडतापुरे ।(४) आगत्य ।(५) वैताढ्यपर्वतस्य उत्तरश्रेणिदक्षिणश्रेणिविद्याधरैः भगवांस्तीर्थकरः नतः ॥२७॥
१. ०त्ययाच्चन्द्र० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org