________________
१२९
त्रयोदशः सर्गः 'स्वतुङ्गिमाधःकृतरत्नसानु, 'विगाहमानं शिखरैर्विहायः । 'प्रगल्भमानं वपुषैव तेना-ऽश्रितानिव प्रापयितुं “धुलोकम् ॥१७॥
(१) निजोच्चत्वेन तिरस्कृतमेरुम् । (२) स्पृशत् । (३) शृङ्गैः । (४) गगनम् । (५) उद्यमं कुर्वाणम् । (६) शरीरेणैव । (६) स्वस्य संश्रितान् । (८) स्वर्गम् ॥१७॥
चेतश्चमत्कारकरीस्त्रिलोक्या, लक्ष्मीः समालोक्य रसातिरेकात् । संस्तम्भिताङ्गीभिरिवाऽमरीभिः, पाञ्चालिकाभिः प्रविभासमानः ॥१८॥
(१) चित्तस्य चमत्कृतेर्विधायिनीः । (२) दर्शनरसातिशयात् । (३) निश्चलीभूततनूलताभिः । अथवा विमुक्तगमागमाङ्गस्फुरणनिमेषादिव्यापारशरीराभिः । (४) देवीभिः । (५) पुत्रिकाभिः । (६) शोभमानम् ॥१८॥
'पाञ्चालिकाप्रौढविलासवीक्षा-हणीयमानधुधवावरोधम् । 'अष्टापदोत्तीर्णवृषाङ्कगेह-मसासहीवाऽद्रिनिवासजातिम् ॥१९॥
(१) पुत्रिकाणां प्रगल्भविभ्रमाणां दर्शनेन लज्ज्यमाना शक्रान्तःपुर्यो यत्र । (२) कैलाशाद्भूमौ समेतं ऋषभस्य सिंहनिषद्यानामप्रासादमिव । (३) सोढुमप्रभुः । “अहिर्महीगौरवसासहिर्य' इति नैषधे । ( ४ ) शैले-शिखरे नित्यवसतिसञ्जातपीडाम् ॥१९॥
'ध्रुवं दधानं चतुराननीं च, 'हिरण्यगर्भं भवसूदनं च । 'पद्मासनं स्वःसदुपास्यमानं, पतिं प्रजानामपरं किमुँाम् ॥२०॥ सप्तभिः कुलकम् ।।
(१) नित्यस्थायुकम् । (२) चत्वारि मुखानि । (३) सुवर्णं मध्ये यस्य । (४) संसारनिवारणम् । (५) कमलानां पूजादिभिराकृतिभिर्वा स्थानम् । (६) सुरैः संसेव्यमानम् । (७) भूमण्डले । (८) अन्यम् । (९) धातारम् । सर्वाणि विधेरभिधानानि । सुरज्येष्ठत्वाद्देवैः सेव्यमान इति ॥२०॥
'चातुर्गतीयातिमहान्धकूपो-द्दिधीर्षयांशेषशरीरभाजाम् । मूर्तीश्चतस्रः कलयन्निवाऽस्मिन्, मुनीन्दु ऽदर्शि युगादिदेवः ॥२१॥
(१) चतसृभिर्य इन्द्र-नरक-नर-सुराणां गतयस्तत्सम्बन्धिन्यो याः पीडा दुःखानि त एव महान्तस्तमःकूपास्तेभ्य उद्धर्तुमिच्छया । (२) समस्तप्राणिनाम् । (३) धारयन् । (४) धरणविहारे । (५) सूरिणा । (६) दृष्टः ॥२१॥
'निःश्रेयसस्येव सुखं 'जिनेन्द्र, प्रदक्षिणीकृत्य पतिर्यतीनाम् । सुधासनाभीभवदुक्तियुक्ते-भक्तेः स्तुतेर्गोचरतां चकार ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org