________________
१२८
श्री हीरसुन्दर' महाकाव्यम् (१) पूर्वम् । (२) वागड़नामा मालवनामा विराटनामा खाननामा महाराष्ट्रनामा देशः, एतेषु अन्यदेशेषु । (३) सार्थनायकीभूतेन । (४) पुत्रेणेव । (५) सुखं यथा स्यात्तथा । (६) विहारं कृत्वा । (७) द्रव्योपार्जनाय । बहुषु स्थानेषु गत्वा पुण्यानि अधिकधनानि च स्वसात्कृत्वा आदायेत्यर्थः ॥११॥
(१) कल्याणेन कृत्वा राजमानं यद्विजयाभिधानम् । एतावता कल्याणविजय इतिनाम्ना उपाध्यायेषु चन्द्रसदृशेन । (२) समागत्य । (३) सादडीनगरे । (४) विहारपरिपाट्या । (५) अतिशयेनाऽखण्डितैः प्रस्थानैः । (६) श्रीहीरविजयसूरयः पितृचरणाश्च । (७) नमस्कृताः । (८) हर्षात् ॥१२॥ युग्मम् ॥
विभूषयर्द्विन्ध्यधराभृतोऽष्टा-पदस्य साकेतमिवौंपकण्ठम् ।
स वाचकेन्द्रानुगतस्ततः श्री-व्रतीश्वरो राणपुरं बभाज ॥१३॥
(१) विन्ध्याचलशैलस्य । (२) कैलाशस्य । (३) अयोध्यामिव । (४) समीपम् । (५) सूरिः । (६) कल्याणविजयोपाध्यायेन सहितः ॥१३॥
विन्ध्याचलं तुङ्गतया वयस्य-भावं भजन्तिं] प्रविभाव्य विद्मः । 'गिरीशशैलं मिलितुं समेतं, स प्रेक्षताउँस्मिन्धरणस्य चैत्यम् ॥१४॥
(१) उच्चस्तरत्वेन । (२) मित्रताम् । (३) दृष्ट्वा । (४) कैलाशम् । (५) विन्ध्याचलसमीपमागतम् । (६) ददर्श । (७) राणपुरे । (८) धरणविहारम् ॥१४॥
'विनिद्रनीलाञ्जनिकानमेरु-वनीविनीलालकशालमाने । मौलो प्रणीतं द्रुहिणेन चान्द्र-चूडामणिं किं धरणीन्दिरायाः ॥१५॥
(१) स्मेरा नीलाञ्जनिकास्तापिच्छास्तमालतरवस्तथा नमेरवो नीलच्छविवृक्षविशेषास्तेषामारामवन्मेचककचैः शोभमाने । “नीलाञ्जनिकाकुसुमकान्तिनि तमसि" तथा "नीलाञ्जनिकाकुसुमकान्तयः किरातयुवतयः" इति चम्पूकथायाम् । तट्टिप्पनके-नीलाञ्जनिका तापिच्छ इति । (२) मस्तके । (३) कृतम् । (४) विधिना । (५) चन्द्रकान्तमणिमयं शिखारत्नं 'चाक' इति नाम्नाऽधुना लोके प्रसिद्धम् । (६) भूमीश्रियः ॥१५॥
भूमीन्द्रकुम्भाभिधराणकस्य, स्तम्भान्दधानं निजमण्डपान्तः । अनेकपस्फूर्तिभुवः समज्ञा-स्तम्भानिवैतान् शिवगोत्रजैत्रान् ॥१६॥
(१) मेदपाटदेशाधिपस्य कुम्भानाम्नो राणकस्य । (२) सप्तस्तम्भान् । (३) स्वस्य मण्डपमध्ये । (४) गजानां स्फूर्तीनां विलसितानां स्थानानि । पक्षे-अनेकान्पातीति तत्त्वेन या स्फूर्तयस्तासां भुवः । (५) कीर्तिस्तम्भा:( भान्) । (६) कैलाशशैलजयनशीलान् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org