SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १२७ ( १ ) सेवासक्त्या । (२) सुरत्राणभूपः । (३) सन्मुखमागत्य । ( ४ ) प्रतीहार इव । (५) पुरश्चरणशीलः । ( ६ ) श्रीरोहिणीम् । (७) नगरनारीभिर्गानगोचरीकृता विविधावदाता यस्य ॥६॥ 'आलेख्यशेषीकृतकामदस्यो- रुपास्यमानस्य महीमहेन्द्रैः । "चक्रीव 'चक्रस्य पुरे "पुरीन्द्रो, महामहं कारयति स्म सूरेः ॥७॥ (१) हतः कामः स्मर एव वैरी येन । पक्षे व्यापादिता अतिशयेन वैरिणो येन । (२) सेव्यमानस्य । (३) राजभिः । ( ४ ) चक्रवर्त्तीव । (५) प्रथमोत्पन्नस्य चक्रस्य । ( ६ ) शिवपुरीस्वामी । (७) महोत्सवम् ॥७॥ `दिदृक्षुरेंतन्महिमानमभ्रे-सरित्सहस्त्रं 'दधती 'मुखानाम् । "यत्राऽऽगता किं 'सितकेतुकाया, पुरीं स तां सूरिरलंचकार ॥८ ॥ (१) द्रष्टुमिच्छुः । (२) सूरिमहिमानम् । (३) आकाशनदी । सहस्त्रमुखी गङ्गेति जने प्रसिद्धिः । ( ४ ) दशशतीम् । (५) धारयन्ती । (६) वक्त्राणाम् । (७) शिवपुर्याम् । (८) प्रति प्रतिगृहं श्वेतध्वजदम्भात् ॥८॥ 'द्वितीयराशौ शतमन्युसूरि-रिव क्रमेणपगतः स तस्याम् । "प्रकाशयन्बौधिनिधीन्विदग्धान्, 'महोदयस्यऽभिमुखीचकार ॥९॥ (१) यस्य कस्यचित्पुंसः स्वराशितो द्वितीयो राशिः । यत उक्तं च "द्वितीये नवमे राशौ बृहस्पतिरुपागतः । कुर्यान्महोदयं पुत्रगोत्रवृद्धिः धनं पुनः ॥ १ ॥” इति वचनात् । ( २ ) बृहस्पतिः । (३) परिपाट्या । (४) समागतः । (५) शिवपुर्याम् । ( ६ ) प्रकटीकुर्वन् । (७) सम्यक्त्वनिधानानि । ( ८ ) मोक्षस्य, अतिशयाभ्युदयस्य । (९) सम्मुखीकुरुते स्म ॥९॥ 'स' प्रस्थितस्तत्पुरतः पुरस्ता - स्मितप्रसूनादिव 'चिञ्चरीकः । गण्डे गजस्येव विलङ्घय मार्ग, स सादडीनाम्नि पुरे जगाम ॥१०॥ - (१) सूरि: । ( २ ) प्रचलितः । ( ३ ) तन्नगरात् । (४) विकचकुसुमात् । ( ५ ) भृङ्गः । (६) कपोले । (७) अतिक्रम्य ॥१०॥ 'प्राग्वांगडावन्तिविराटखान - महादिराष्ट्रापरमण्डलेषु । 'सार्थाधिपेनेव 'सुतेन 'सातं, "विहृत्य लाभांश्च बहूपा ॥११॥ 'कल्याणराजद्विजयाभिधानो- पाध्यायचन्द्रेण समेत्य तत्र । "क्रमादेविच्छिन्नतमप्रयाणैः, 'श्रीतातपादाः प्रणताः 'प्रमोदात् ॥ १२ ॥ युग्मम् ॥ 1. चिञ्चिरीक: हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy