SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ऐं नमः ॥ अथ त्रयोदशः सर्ग : ॥ अथाऽर्बुदाद्रेवतीर्य भूमी, विभूषयामास स सूरिभूमान् । वचस्तरङ्गैस्त्रिजगत्पुनानो, रयो हिमाद्रेरिव देवनद्यः ॥१॥ (१) अथ समेत्य । (२) सूरिराजः । (३) वाक्कल्लोलैः । ( ४ ) त्रैलोक्यजनान् । गङ्गापि त्रिभिः प्रवाहैस्त्रिभुवनं पवित्रीकुर्वाणः । (५) प्रवाहः । (६) गङ्गायाः ॥१॥ यस्यां द्विपेन्द्रैः स्वमदप्रवाहै-रारॉमिकौघैरिव वारिपूरैः । वृक्षा अवद्धय॑न्त विभुंर्व्यहार्षी-त्तत्रांऽर्बुदाभ्यर्णवसुन्धरायाम् ॥२॥ (१) अर्बुदानेरधोधात्र्यांम् । (२) मत्तगजेन्द्रैः । (३) निजदानवारिश्रेणिभिः । (४) वनपालकगणैः । (५) पयोभरैः । (६) वृद्धि नीयन्ते स्म । (७) विहारं कृतवान् । (८) तस्यामधंदाभ्यर्णभूमौ ॥२॥ मित्रं 'महिम्ना किमनुव्रजन्तं, स्वदीर्घभावेन सहाय[व]त्तम् । इवाऽचलं शैवलिनीप्रवाहः, क्रमान्मुनीन्द्रोऽर्बुदर्मुल्लङ्घे ॥३॥ (१) माहात्म्येन तुङ्गतया । (२) स्वस्य आयामतया अतिलम्बत्वेन । (३) सखायमिव । यथा प्रस्थितस्य पुंसः सुहृत्सार्द्धमायाति । (४) मार्गपर्वतमिव । (५) नदीरयः । (६) उल्लचितवान् ॥३॥ प्रतिष्ठमानः पुरतो व्रतीन्दु-भूषामनैषीत् शिवपू:समीपम् । स्वपादसंस्पर्शनतः पयोज-कुशं यथा पङ्कजिनीविवोढा ॥४॥ (१) प्रचलन्नग्रे । (२) श्रीरोहिणी श्रीरोही वा तस्याः समीपम् । (३) शोभाम् । (४) प्रापयति स्म । (५) निजचरणानां किरणानां च संपर्केण । (६) कमलवनम् । (७) भानुः ॥४॥ 'जनारवैरागमनं मुनीन्दो-स्तत: 'सुरत्राणनृपो 'निपीय । 'कलापिकेकाभिरिवाऽम्बुदस्य, नभोम्बुपः सम्भदमेदुरोऽभूत् ॥५॥ (१) लोकवार्ताभिः । ( २ ) पादावधारणम् । (३) सुरत्राणनामा शिवपुरीस्वामी राजा। (४) सादरं श्रुत्वा । (५) मयूरकेकारवैः । (६) मेघस्य । (७) चातकः । (८) हर्षपुष्टः ॥५॥ 'भक्त्या सुरत्राणनृपोऽभिगम्य, वेत्रीव दण्डं दधदंग्रगामी । प्रवेशयामास पुरीं स सूरिं, पुराङ्गनागीतयशः प्रशस्तिम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy